________________
श्रुतं संसारेऽस्मिन् प्रभवति कदम्बादघहतिः श्रितस्त्वां कादम्बाउशिवहतिविलम्बं कुरु नहि ॥५॥
मया दृष्टः सर्वः सुरसमुदयः सत्त्वरहितः परं स्वामिन् ! श्रीमन् ! त्वमसि विदितः सत्वर-हितः । समुद्धर्तुं शक्तो भवगहनतः सम्प्रतिजिनः कदम्बाधीशस्त्वं हर भवभयं सम्प्रति जिनः ॥६॥
नमीशं नेमीशं वृषभमथ सीमन्धरजिनं महावीरं धीरं जलनिधिगभीरं सुखकरम् । जिनानन्यान् सर्वान् गतसमयजं सम्प्रतिप्रभुं कदम्बे वन्देऽहं जिनपतिकदम्बं प्रतिदिनम् ॥७॥
कदम्बाख्यः प्रख्यः प्रथमगणभृत् सम्प्रतिप्रभोवृतः सद्यः कोटीमुनिपरिवृतः सिद्धिललनाम् । यदीयाऽच्छच्छाया शरणवशतः कर्मदहनं कदम्बं तं वन्दे प्रचुरमहिमानं शिवप्रदम् ॥८॥
अये लोकाः ! शोकग्रसितमनसः ! किं तत इतः सुखं प्राप्तुं मिथ्याचरणमभिकुर्वन्त्यनुदिनम् । अमुं साक्षाद् वाञ्छासुरविटपिनं पूर्णमहिम कदम्बं सेवध्वं नतसुरकदम्बं गिरिवरम् ॥९॥ श्रियो वृद्धिं नेमिः प्रवितरतु सुदर्शनमलं करोतु स्वच्छन्दं समुदयमुदं नन्दनयतु । प्रदत्तां विज्ञानं चरणयुगपद्मप्रणमनात् स मेऽपायात् पायादमृतमयलावण्यवपुषा ॥१०॥