________________
क्षणे क्षणे गतिभिन्ना
प्रो. कमलेशकुमार छ. चोक्सी
क्षणे क्षणे गतिर्भिन्ना जगति दृश्यते क्वचित् । वर्ण्यते सा गतिरत्र नैषा स्थितिः सनातनी ॥१॥ बुद्धिमता मनुष्येण ज्ञेया स्थितिरियं सदा । शक्यं यावद् भवेत् तावद् रक्ष्यः स्वात्मा प्रयत्नतः ॥२॥ स्थितिं सनातनी जानन् निराकरोति पण्डितः । न शक्नोति निराकर्तुम् अबुधः साधनैः सह ॥३॥ भिन्नस्थितिवशादत्र कार्यं न सिध्यति क्वचित । अभिन्लां हि स्थितिं कर्तुं शक्तो भवति मानवः ॥४॥ अत एव कविरत्र घटनानामनुभवात् । आश्रमेश्वरचित्राणि चित्रितवान् स्वयत्नतः ॥५॥ क्षणे रुष्टः क्षणे तुष्ट: रुष्ट: तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥६॥ इत्येषा नीतिकारस्य वाणी मनसि मे स्थिता । आकारयति चित्राणि निम्नोक्तानि मया स्वयम् ॥७॥ क्षणे तीव्रा क्षणे मन्दा तीव्रमन्दा क्षणे क्षणे । सम्म यानचालस्य भवति गतिरीदृशी ॥८॥ क्षणे तापः क्षणे छाया तापच्छाये क्षणे क्षणे । अभ्रे गतिमते मेघे पृथिव्यां गतिरीदृशी ॥९॥
१. आश्रम = ४, ईश्वर = १ अर्थात् १४ । २. लब्धे मार्गे तीवा गतिः अवरुद्धे च मन्दा - इति विवेकः ।