________________
प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतपद्यानुवादः
पं.नरेन्द्रचन्द्र-झा
षष्ठः सर्गः प्रिय ! कस्मिन्नुषितस्त्वं कस्मादधुना समागतो देशात् । अहमस्मि विस्मृता किं ?, येनाऽसि त्वं च शिक्षार्हः ॥१॥ कस्यामस्यनुरक्तस्तव कथयाऽन्याऽपि किं प्रिया काचित् ?। कथयाऽहं किं मुक्ता ?, किञ्च मयाऽऽगः कृतं तादृक् ॥२॥ वद किं युक्तमिदं ते ?, प्रतिपादय किं चिराय दृष्टोऽसि ?। इति मधुकरगुञ्जनतः, कैरविणी चन्द्रमप्राक्षीत् ॥३॥ कथयाम्बभूव कोकी, दूरस्थप्रिये ! विनिन्दितात्माऽपि । निन्दितशब्दैर्बिसिनी, निन्दन्ती दूषणै रहिताम् ॥४॥ न बुभुक्षितोऽपि चक्रो, कवलीचक्रे बिसं निजच्छायाम् । प्रियाभ्रमान्निजपक्ष-व्यजनैः संवीजयन् प्रीत्या ॥५॥ गायन्तः स्वाध्यायं, ध्यायन्तो धर्मभावमकलङ्कम् । जानन्तो ज्ञातव्यं, मुनयश्चाऽऽवश्यके लग्नाः ॥६॥ दिनतापादुद्धमातः, श्रद्धाय च दाहशामिकां ज्योत्स्नाम् । कोऽमृतवत् पातव्यां, पातुं लग्नो न नेत्राभ्याम् ? ||७|| चान्द्रमसं रसमपिबत्, तद्रससम्पायी चकोर समुदायः । पिबति स्म भ्रमराली, सरसां शेफालिकाधूलीम् ॥८॥ पवनोद्वानविलेपाः, शुष्यद्गमनश्रमाम्बवः कुलटाः । श्वशुरजने निद्राति, स्वपति च नाथे गताः स्वैरम् ॥९।। कमलं निद्रामुकुलं, नाऽऽघ्रातुं मधुकरोऽपि चाऽतिष्ठत् । आजिघ्रन्ननु कुमुदं, मकरन्दनात इव मधुपः ॥१०॥
१०९