SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 'अन्धजनानां नामानि' । पत्रे च बहूनि नामानि लिखितान्यासन्, प्रान्ते च अकब्बरस्य नामाऽपि लिखितं समासीत् । ततोऽकब्बरेण द्वितीयजनहस्तादपि पत्रमाकृष्य पठितम् । तत्रोपरिष्टात् "पश्यतां जनानां सूचिः' इति लिखितमासीत् । किन्तु समग्रमपि पत्रं रिक्तमेवाऽऽसीत् । एतेन विस्मितो राजाऽपृच्छत् - 'वीरबल ! किमेतत् ? मम नाम किलाऽन्धजनानां सूच्यां कथमुल्लिखितम् ? तथा पश्यतां जनानां सूचिः किमर्थं रिक्ताऽस्ति ?' । वीरबलेनोक्तं – 'जगदाधार ! भवता सह सर्वैरपि दृष्टमेव ननु यदहं जीर्णे भग्ने चाऽऽसन्दे उपविश्य तस्यैवाऽऽसन्दस्य समारचनं करोमीति, तथाऽपि सर्वैरपि पृष्टं यत् - "भवान् किं करोतीति"। एतेनैव च निश्चितमपि यत् – पश्यतां जनानां संख्या सर्वथाऽल्पीयसी जगत्यस्मिन्' । _ अकब्बरेण समीचीनो बोधः प्राप्त आसीत् । स मन्दमन्दं स्मित्वा वीरबलं प्राशंसत् पुरस्कारं च तस्मै प्रादात् ॥ १०५
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy