________________
वाचकानां प्रतिभावः
सप्रश्रयं प्रणतयः आचार्यचरणेषु । प्रणम्यते च मान्या कीर्तित्रयी।
"नीत्या प्रीत्या च स्वस्वकर्मणि जागरूकैः भाव्यम्" इति नन्दनवनकल्पतरोः ३९तमे अङ्के व्यक्तः विचारः ४०तमे अङ्के पुष्टः जातः । पुनः पुनः एतदर्थं विचार्यम् आचरणीयम् च ।।
__ "वयं राष्ट्रे जागृयाम पुरोहिताः" इति कृत्वा, अस्माकं मनीषिभिः एतदेव, भावनापूर्वकम् आदिष्टम् । ये नाम, पुरः स्थितं हितं विचारयन्ति, ते सर्वेऽपि पुरोहिताः जागृताः भवेयुः । अत्र, प्रथमपुरुषतः कृतः निर्देशः, निर्दिशति यद् एतादृशाः वयमेव पुरोहिताः । अस्माभिरेव एकैकशः जागृतिः
सेव्या ।
"एकाकी अहं किं कुर्याम् ?" इति विचारणा त्याज्या । वयमेव समर्थाः सर्वं साधयितुम् । विचारेणाऽनेन, कार्यः कार्यारम्भः ।
शनैः शनैः स्यात् संघबलम्, शनैः शनैः स्यात् साफल्यम् ॥ इति । पुनश्च भाव्यं विश्वगुरुत्वम् । अस्मत्प्रयत्नैरेव शक्यं तत् । देवस्तत्र सहायकृत् । अस्तु श्रीः ।
डो. वासुदेव वि. पाठकः 'वागर्थः'
अहमदाबाद-१५