SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ सम्पूज्याः आचार्यवर्याः, मान्या कीर्तित्रयी, नमस्काराः । एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ इति वचनं, व्युत्क्रमप्राप्तमधुना । परेषां गुणविकासः भवतु, इति भावयमानाः वयं, स्वगुणविकासं विस्मृतवन्तः । वस्तुतः, महत्त्वं तु प्रथमपुरुषस्य । 'अहम्' इति पदम्, आंग्लभाषायां 'I' इति पदैन वाच्यते । I is always capital. सर्वत्र, महत्त्वं 'मम' वर्तते । केन्द्रीभूतोऽहम् इति सर्वथा स्वीकार्यम् । एवं जाते, यस्य कस्यापि सत्कार्यस्य प्रारम्भः मया एव स्यादिति सहजं स्वीकार्यम् । स्वच्छता, ज्ञानाप्तिः, गुणानां विकासः - सर्वं चेदं, यदि जनः स्वयमेव न करिष्यति, तर्हि न किञ्चित् सम्भाव्यम् । न मया कार्यमत्रास्ति सर्वमन्यः करिष्यति । ममोदरस्य संतृप्तिः भवेदन्यस्य योजने ॥ इति वृत्तिः भ्रान्तानाम् । कार्यारम्भः स्वयमेव कार्यः, इति निश्चिता मतिः प्रथमं कार्या । ततः सर्वं – राष्ट्रहितं, विश्वहितं वाऽऽपि स्वयमेव स्यात् । कर्तव्यपालनं कृत्वा स्वयमादर्शवान्भव । अनुसरन्ति संसारे दिशाशून्यास्तु दर्शकम् ॥ अस्तु स्वकर्मनिष्ठा मे। इति शम् । डो. वासुदेव वि. पाठकः 'वागर्थ' ३५४, सरस्वतीनगर, आंबावाडी, अहमदाबाद-३८००१५
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy