________________
सम्पूज्याः आचार्याः,
कल्पतरोः एकचत्वारिंशी शाखाऽत्यन्तमानन्देन पठिता ।
प्रास्ताविके भ्रष्टाचारसम्बन्धि वचो यदुक्तं तत्तु सत्यमेव । किन्तु धार्मिककार्याणि बाल्यादेव पाठनीयानि । एतस्याऽभावादेव सर्वत्र जना जननायकाश्च पापान्याचरन्ति । अभिराजराजेन्द्रमिश्रवर्यस्य गीतिके अतीवाऽरोचेताम् । रामलिङ्गशास्त्रिणः "संस्कृतं सर्वतोभद्रम्" इति लेखः चिन्तोद्दीपक आसीत् । कल्याणकीर्तिविजयैरनूदितः "हिटलरः, स्तालिनः, माओ वा, कः क्रूरतमः ?" इति लेखो लोकशासकानां क्रूरताया निदर्शनदायक आसीत् । तेषाञ्च सत्यप्रसङ्गोऽपि अतीव रुचिरः । अक्षयरत्नमुनीनां कथा, अपि रुचिराः । अन्याः कन्या अपि हृद्याः, नवीनप्रयोगयुताश्च । अस्य मासस्य (२५ - वर्षपूर्वं लिखितस्य) पत्रमपि पण्डितोचितप्रयोगैः मनोरञ्जकम् आसीत् । नर्मकणिकाभिर्मनः प्रसन्नं कृतम् । संस्कृतानुवादेन प्राकृतकाव्यमास्वादितम् । किन्त्वनुवादरहितः प्राकृतगद्यविभागः सम्यक् न अवगतः ।
इति भवदीयः विनीतविधेयः
रवीन्द्रः (एम्. ए. रवीन्द्रन्, पालक्काडु)
(४)
नन्दनवनकल्पतरुः ४१ - इति पत्रिका समधिगता । अत्र मम सुहृदो डो. गदाधर-त्रिपाठिनो रचनाद्वयं विलसति । सम्पादकीये सत्यं निगदितं – यदि समाजे न्यायोपेतं धनार्जनं जना न कुर्वन्ति, तर्हि अलं शिक्षया धर्मशिक्षया वा । प्रायशः सर्वा रचनाः पठनीयाः सन्ति ।
भवदीयः डॉ. रूपनारायणः पाण्डेयः