SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ क्षणे गतिः क्षणे स्थितिः गतिः स्थितिः क्षणे क्षणे । मसिकूपगते वायौ लेखिन्या गतिरीदृशी ॥१८॥ क्षणे त्यागः क्षणे रागः त्यागः रागः क्षणे क्षणे । अपक्ववीतरागस्य संन्यासे गतिरीदृशी" ॥१९॥ क्षणे मित्रं क्षणे शत्रुः मित्रं शत्रुः क्षणे क्षणे । जनवाहकयन्त्राणां चालकानां स्थितिरियम् ॥२०॥ क्षणे युक्तः क्षणे मुक्तः युक्तः मुक्तः क्षणे क्षणे । अक्षक्रीडाप्रसङ्गे वै धनि-धनस्थितिरियम् ॥२१॥ क्षणे स्वस्थः क्षणे रुग्णः स्वस्थः रुग्णः क्षणे क्षणे । आईसीयुप्रविष्टानां स्वजनानां स्थितिरियम् ॥२२॥" भिन्नामेतां स्थितिं ज्ञात्वा यथायोग्यं समाचरेत् । इति सदाशयादव चित्रिता विविधा स्थितिः ॥२३॥ भिन्नायाः संभवो यत्र स्थितेर्बुधदृशि गतः । सद्यः निराकृतं कृत्वा कल्प्यते सुखदं सदा ॥२४॥" संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, नवरंगपुरा, अहमदाबाद-३८०००९ (गुजरात) मो. ९८२५४७८८७६ Email : kamlesh24@yahoo.co.in ११. भावुकत्वाद् गृहीतसंन्यासो जनो वैराग्यस्य परिपक्वताभावात् कदाचित भोगं प्रति आकृष्टः सनु भोगी अपि भवति, विशेषतो भोजनाच्छादन-वस्त्रालङ्कारादिपदार्थेषु, न तु सर्वेन्द्रियभोगेषु । संन्यासित्वात् तादृशत्यागस्याऽपेक्षितत्वाद् - इति विवेकः ॥ १२. यदि वाहकयवं स्थापयित्वा यात्रिणं वाहनस्थं करोति तदा मित्रता, अन्यथा शत्रुता - इति संदर्भः ॥ १३. जयं प्राप्तः सन् प्रभूतं धनं धारयति । पराजये सत्यकिञ्चनः सन् धनात् सर्वथा मुक्तः, अर्थात् निर्धनो भवतीति यथायोग्यं विचारणीयं भवति पाठकेन । एवं धनी कदाचित् धनेन युक्तो भवति कदाचित् च धनान्मुक्तो भवतीति सुस्पष्टम् ॥ १४. वर्तमाने चिकित्सापद्धतौ अतीव रोगिजन आईसीयुमध्ये प्रविष्टो भवति । तत्र कदाचिद् औषधप्रभावेन तस्य स्वास्थ्यविषये सुतरां समीचीना स्थितिर्बहिर्गतेन स्वजनेन श्रूयते कदाचिच्च गभीरा स्थितिरस्तीति वृत्तान्तः । रोगिणः स्वजनानां च पारस्परिक-साक्षात्सम्बन्धाभावात् सार्वत्रिकी स्थितिरेषा । अद्यत्वे आईसीयुमध्ये प्रविष्टानां परिचर्या वर्गविशेष एव करोति न तु स्वजना इति महत्सु चिकित्सालयेषु प्रवर्तमाना व्यवस्था प्रसिद्धैव् ॥ १५. संसारे सर्वत्र भिन्ना भिन्ना स्थितिः प्रवर्तते । तत्र कदाचिद् वयमेव कारणं कदाचित् प्रकृतिः कदाचित् च पदार्थः । एवं सति बुद्धिमता जनेन, या स्थितिः सुखदा भवति सा सर्वदैव प्रवर्तेत, तादृश उद्योगः करणीयः । अस्य मत्रस्य विचारस्य वा प्रतिपादनाय काव्यमिदं ग्रथितमस्तीति काव्यकारस्य मे प्रान्ते निवेदनम् ॥
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy