________________
अस्ति किल गूर्जरराज्ये धार्मिक-सामाजिकार्थिकौद्योगिक-कलाशिक्षणादिक्षेत्रेष्वग्रेसरं प्राचीनपरम्पराणामाधुनिकरीतीनां च समन्वयस्थानरूपं वाणिज्यक्षेत्रे च नितरामग्रियमैतिहासिकं चाऽहमदाबादनाम महानगरम् ।
वैक्रमीये विंशतितमे शतके महानगरमिदमासीत् खलु जैनधर्मावलम्बिनां मुख्यं नगरम् । सहस्रशो जैनपरिवारा अत्र वसन्ति स्म । अस्य महानगरस्य प्रत्येकं प्रतोलिकायां जिनमन्दिराणि, पौषधशालाः, उपाश्रयाः, ज्ञानशालाः - इत्यादीनि धर्मस्थानान्यभवन् । प्रत्येकं विपणौ जैनश्रेष्ठिनामेव प्रामुख्यं, व्यापार-व्यवहार-वाणिज्यानि च प्रायशो जैनवणिजामेव हस्तगतान्यासन् । वस्त्रोद्योगः समग्रोऽपि जैनश्रेष्ठिभिरेव प्रवर्त्यते स्म । विशालैर्वस्त्रवयनयन्त्रालयैर्वेष्टितं महानगरमिदं भारतस्य 'मान्चेस्टर' नगरमिति विश्रुतमासीत् । नगरे प्रवर्तमानाः सर्वा अपि शिक्षणसंस्थाः प्रायशो जैनश्रेष्ठिनां दानप्रवाहेणैव स्पन्दमाना आसन् । राजकीयक्षेत्रेऽपि महानगरे जैनश्रेष्ठिनामेव प्रभावो दरीदृश्यते स्म । एतस्योदाहरणद्वयमेव पश्येम – 'सरदार' इति नाम्ना विश्रुतस्य श्रेष्ठिनो लालभाई-दलपतभाई-इत्यस्याऽभिप्रायस्तादात्विकेनाऽऽङ्ग्लसर्वकारीयवाइसरोय-पदस्थितेनाऽपि गृह्यते स्म, मन्यते स्म चाऽपि । एवमेव तदीयपुत्रस्य कस्तूरभाई-लालभाईइत्यस्य गाढः सम्पर्को महात्मगान्धि-सरदारपटेल-नहेरु-इन्दिरागान्धि-प्रमुखै राजनेतृभिः सहाऽऽसीत् । एतादृशैजैनश्रेष्ठिभिश्चाऽत्र महानगरे प्रायः सर्वत्र क्षेत्रेषु निजधनं दानरूपेण प्रवाह्य महानगरमिदं सुन्दरं रमणीयं च विहितमासीत् ।
ईदृशोऽस्य महानगरस्य हृदयस्थानभूते माणेकचोक-इति स्थाने सङ्ख्याताः प्रतोलिकाः सन्ति । तास्वन्यतमाऽस्ति क्षेत्रपालप्रतोलिका । तस्यां प्रतोलिकायां श्रेष्ठिश्रीफत्तेचंद-नानचंद-कीनखाबवाला - इति विश्रुतं कुटुम्बमेकं परिवसति स्म । कुटुम्बमिदं नितान्तं जिनधर्मानुरागि श्रमणगणचरणसेवि चाऽऽसीत् । कुटुम्बमुख्यः श्रेष्ठी श्रीअमीचंदभाई-नामा परमश्रद्धावान् श्रावक आसीत्, तत्पत्नी च धर्मपरायणा गुणगणालङ्कृता चम्पाबेन - इति श्राविकाऽऽसीत् । तयोश्च द्वौ पुत्रौ - रतिलालः, हिंमतलालश्च । द्वावपि संस्कारवन्तौ विद्यावन्तौ विनयादिगुणवन्तौ च ।।
__ पूर्वमपि पुण्यशालिनोरनयोर्दम्पत्योः पुराकृतं किञ्चनोत्कृष्टं पुण्यमुदयकालप्राप्तमिव वैक्रमे १९५७तमे वर्षे पौषकृष्णप्रतिपदि शुभलक्षणोपेतः सर्वस्वजनमनआनन्दकारी पुत्रो जनिमलभत । तस्य जन्मसमयं तत्कालीनग्रहचारं योगांश्चाऽन्यान् संवीक्ष्य ज्योतिषिकैः कथितं यद् - 'बालकस्याऽस्य जन्मकुण्डलिकायामत्युत्तमो ग्रहयोगो वर्तते, तथा जन्मसमयोऽप्यस्य श्रेष्ठोऽतो बालोऽयं कुलदीपकस्तु भविष्यत्येव जगदुपकारकोऽपि भविष्यति' । तस्य च बालस्य परमकान्तिमत्त्वात् कान्तिलाल इति नाम कृतम् ।
ज्येष्ठभ्रातृभ्यामन्येन च स्वजनवर्गेण लाल्यमानस्य पितृभ्यां च पाल्यमानस्य कान्तिलालस्य शैशवमतिक्रान्तं, व्यावहारिकशिक्षणार्थं च स मनसुखभाई-प्रतोलिकायां विद्यमानायां जैनशालायां प्रवेशितः । यद्यपि स तत्राऽक्षरज्ञानमन्यच्च पठन-लेखनादिकं शिक्षितवान्, तथाऽपि तच्छिक्षणमधिकं प्राप्तुं तस्योत्साह नाऽऽसीत् । अतः शालागमने स मन्दादरोऽभवत् ।
३२