________________
प्राकृतवाग्विशारदानां पूज्याचार्यश्रीविजयकस्तूरसूरीश्वराणां जीवनवृत्तम्
- कल्याणकीर्तिविजयः स्वनामधन्यानां परमगुरूणां शासनसम्राजां पूज्याचार्यभगवतां श्रीविजयनेमिसूरीश्वरणामष्टौ प्रधानशिष्या ज्ञानेन चरित्रेण तपस्तेजसा च अष्टौ दिग्गजा इव तेजस्विनो, गुणगणसमलङ्कृताः, सामान्यतः सर्वविधास्वपि विद्याशाखासु कृतावगाहा अपि विशेषतो विशिष्टविषयेषु कृतभूरिपरिश्रमाः पारगामिणश्चाऽऽसन् ।
तेषु ह्यष्टसु प्रधानशिष्येष्वन्यतमा आसन् आचार्याः श्रीविजयकस्तूरसूरीश्वराः । यद्यप्येते खल्वाचार्यविजयविज्ञानसूरीश्वराणां शिष्या अभवन्, शासनसम्राजां च प्रशिष्यतया भुवि ख्याता आसन्, तथाऽपि ते निर्मलया प्रज्ञया देदीप्यमानैश्च निजैविशिष्टैर्गुणैः शासनसम्राजां दिग्गजतया विश्रुतानां शिष्याणां पर्षदि स्थानमलभन्त ।
अयं खलु वैक्रमीयः २०७५ तमः संवत्सरः आचार्यवर्यश्रीविजयकस्तूरसूरीश्वराणां दीक्षायाः शततमः संवत्सरः । ततश्च पुण्यनामधेयानां तेषां दीक्षाशताब्दीमुपलक्ष्य तदीयं किञ्चन जीवनवृत्तं यथायथं च गुणगणानत्र वर्णयितुमयमुपक्रमः ।
यद्यपि नाऽयं जनस्तेषां जीवनकालस्य साक्षी, नाऽपि च तेषां गुणगणैः परिचितस्तथाऽपि गुरुजनानां सकाशात् तेषां जीवनस्य विविधान् प्रसङ्गान् श्रावं श्रावं, तथा यत्र तत्र विकीर्णानि तेषां जीवनवृत्तपत्राणि यथाकथञ्चित् संगृह्याऽत्र वर्णनोपक्रमं समारभते । तन्नोपालभ्योऽयं जनः कुत्रचित् स्खलन् कथञ्चिदतिशयोक्तिं वा कुर्वन् ।