SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ऽभ्यासोऽभिरुचिर्वा नाऽऽत्मसात्कृते । यदि दैवयोगात् कश्चन कलाकारो लेखको दिग्दर्शको वा (director) तादृश उपलभ्येत यः पुस्तकपठने सर्वथाऽरुचिमान् स्यात्, अथाऽपि स्वकार्यं श्रेष्ठतया कुर्वन् स्यात् तदा स कलाकारादितया नैव परिगण्येताऽपि तु शोभनप्रविधिज्ञतया(technician) परिगण्येत" । एकस्मिन् सर्वेक्षणे तथ्यमिदमुपलब्धं यत् - 'भिक्षा तेनैव मार्गणीया भवति यः कदाऽपि पुस्तकानि न वाचितवान् स्यात् । येन पुस्तकानां वाचनं कृतं स निश्चप्रचं कथमपि स्वजीविकामर्जयत्येव' । भवतु नाम । अस्माकं पूर्वसूरयोऽप्यस्मान् सनिर्बन्धं कथितवन्तः सततं पुस्तकपठनार्थं ज्ञानार्जनार्थं च । एवमेव बहुश्रुतत्वमाविर्भवति खल्वस्माकम् ! । एतदेव कथनं साम्प्रतिकविज्ञानस्याऽपि । तद्धयेवं मन्यते यत् - पुस्तकवाचनाद् बहवो लाभा जायन्ते । द्विवान् लाभान् विचारयामस्तावत् । तत्र प्रथमो महांश्च लाभोऽस्ति – पुस्तकवाचनात् समयापव्ययो रक्षितो भवति । प्रायशो जनैस्तय॑ते यत् - पुस्तकपठनं नाम समयदुर्व्ययः । परं वास्तवेन तु पुस्तकवाचनं महत् समयरक्षकम् । विविधविषयकपुस्तकवाचनेन जनो विविधानि संवेदनानि नैकाश्चाऽनुभूतीविनाऽऽयासेनैवाऽवबोद्धं शक्तो भवति । इतरथा तानि संवेदनानि ताश्चाऽनुभूतीः साक्षादनुभवितुं तेन वर्षाणि यापितव्यानि भवेयुः । पुस्तकपठनेन तानि वर्षाणि रक्षितानि भवन्ति । भविष्यति चोत्पत्स्यमानानां विपत्तीनां परिहारोपाया इदानीमेव प्राप्यन्ते । ततश्च प्रदीप्ते वह्नौ कूपखननं नाऽऽवश्यकम् । अतीते भविष्यति काले च विहर्तुं विज्ञानकथाकारैः समययन्त्रस्य कल्पना क्रियते । परं पुस्तकानि तु साक्षादेव समययन्त्राणि । तेषां पठनेन वयं भूते भविष्यति च सर्वथा स्वतन्त्रया विहर्तुं शक्ताः । पुस्तकपठनस्य द्वितीयो महान् लाभोऽस्ति - विचाराणां वाण्या वर्तनस्य च संशोधनं संस्करणं च । एतच्च द्वितयमपि पर्याप्तमात्रया भवति, न तु यथाकथञ्चित् । यतो हि पुस्तकवाचनादात्मनिरीक्षणं व्यवहारपरीक्षणमन्तर्मुखता चोत्पद्यन्ते वर्धन्ते च । फलतः स्वीया दोषाः स्खलनानि च प्रत्यक्षाणि भवन्ति । ततस्तेषां परिमार्जनं, संस्करणं च सम्भवति । __मानसचिकित्सका वदन्ति यत् – पुस्तकपठनात् तर्ककर्कशस्वभावोऽपि जनः सौम्यतां प्राप्नोति । नियततया पुस्तकवाचकेन सहवासस्तेन सह संलापश्च जनेभ्योऽधिकतया रोचते । यतः पुस्तकपठनात् तस्मिन् परावर्जनक्षमता परप्रत्यायनक्षमता च विकसिता भवति । विशेषतस्तु प्रत्येकं परिस्थितिस्तेन सरलतयाऽवबुध्यते, समायां विषमायां वा परिस्थितौ कथं प्रवर्तनीयमिति स सम्यक्तया जानाति च । पुस्तकवाचनस्य तृतीयो विशिष्टो लाभोऽस्ति - तत् खलु वाचकस्याऽन्तःकरणे धैर्यं शौर्यं च सञ्चारयति । प्रत्येकं मनुष्यस्य जीवने प्रिया अप्रियाश्च घटनाः समापद्यन्त एव । तत्राऽप्रियासु घटनासु समापतितासु कथं स्वीये मनसि धैर्यं प्रपूरणीयं ? कथं च तादृशेषु प्रसङ्गेषु स्वात्मा संरक्षणीयः ? कथं वा स्वस्य योग्यं मूल्याङ्कनं कृत्वा तासां घटनानां पारं प्राप्तव्यमित्यादि सर्वं पुस्तकवाचनतोऽत्यन्तं सरलतयाऽस्मन्मानसेऽवबुध्यते ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy