________________
आयरियसिरिविजयकत्थूरसूरिसंग्गहिया ।
पाइयविन्नाणगाहा
ना छतपर्ग तथा वासी श्री बारभाई छगनलाल शाह परिवार
पाइयविन्नाणगाहा
प्राकृतभाषासाहित्यस्य श्रेष्ठानि शृङ्गाररसमयानि काव्यानि सगृह्य पूर्वं (प्राकृतसाहित्यानुरागिणा) विदुषा महाराजेन शालिवाहनेन गाहासत्तसइ (गाथासप्तशती)- इत्याख्यो ग्रन्थो विरचित आसीत् । अस्य च ग्रन्थस्य प्रायस्त्रयोदश व्याख्या विरचिताः सन्त्यद्यावधि ।
एवमेव जैनसाधुना महोपाध्यायश्रीसमयसुन्दरेण गाथासहस्त्री-नामा सङ्कलनग्रन्थो विरचितो यत्र विविधचरितग्रन्थेभ्य उद्धृत्य शान्तरसमयानि काव्यानि सङ्ग्रहीतानि सन्ति ।
तथा, जयवल्लभाख्यपण्डितेन वज्जालग्गं इत्याख्यो ग्रन्थो व्यरचि यत्राऽपि विविधानि प्राकृतभाषामयानि सूक्तानि निबद्धानि ।
एतादृशां ग्रन्थानां परम्परायां पूज्याचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैरपि विविधेभ्यो जैनागम-सिद्धान्तप्रकरण-चरितादिग्रन्थेभ्य उद्धृत्य त्रिपञ्चाशत्सङ्ख्येषु विषयेषु विविच्य प्रायः १८००-प्रमिताः गाथाः सङ्कलिताऽस्ति पाइयविन्नाणगाहा इति ग्रन्थे ।
संस्कृतच्छाया-गूर्जरानुवादसहितस्याऽस्य प्रकाशनमवश्यं पठनीयं प्राकृतभाषाजिज्ञासुभिः ।
६४