Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 16
________________ नल-ऋषिभाषितानिजघन्यं जनम्, नमस्कृतं वा - परैः प्रणमितम्, देहिनम् - जीवम्, जाग्रन्तम् - सावधानम्, प्रमत्तं वा - मद्यादिप्रमादवन्तम्। सर्वस्थान - लुप्तद्वितीयान्तत्वात् सर्वस्थानानि, सर्वावस्थाविशेषावस्थितजीवा इत्यभिप्रायः। तान्यभिलुप्यति - विनाशयति, अनित्यता कालो वेति गम्यते। एतदेव स्पष्टयति "एवमेतं करिस्सामि, ततो एवं भविस्सति"। संकप्पो देहिणं जो य, ण तं कालो पडिच्छती।। ॥२४-१६।। एवम् - मच्चिन्तितप्रकारेण, एतत् - मदभीष्टं द्रव्यार्जनादि, करिष्यामि। ततः - द्रविणार्जनादेः, एवम् - हादिविभवप्राप्तिक्रमेण चिरप्रार्थितं सुखं भविष्यति। इत्यादि देहिनां यश्च सङ्कल्पः - अद्याप्यप्रयुक्तो मानसगतो विकल्पः, तं कालः - कृतान्तः, न - नैव, प्रतीच्छति - तत्सङ्कल्पसिद्धिं यावत्प्रतीक्षा करोति, उक्तं च - न हि प्रतीक्षते कालः, कृतं वाऽथ न वा कृतम् - इति। इतश्चास्या दुर्निवारता, पृष्ठलग्नत्वादित्याह - जा जता सहता जे (जा) वा, सव्वत्थेवाणुगामिणी। छाय व्व देहिणो गूढा, सव्वमण्णेतिऽणिच्चता।। ॥२४-१७॥ या - अनित्यता, यता - अवियोगाय कृतप्रयत्ला, किमुक्तं भवति - या सहता, लुप्तचतुर्थ्यन्ततया सहतायै - सान्निध्याय १. मुद्रितेषु - जा जया सहजा जा बा। हस्तादर्शषु - जा जता सहता जे वा। गन-ण- जो जता सहता जे वा। प- जो जता सहता चेवा। ध - जो जता सहता वेवा। ड - जा जया सहजा जे वा। आर्षोपनिषद्प्रयता, वा - प्रस्तुतार्थस्यैव प्रकारान्तरेणाभिधानद्योतकः। अत एव सर्वत्रैव ग्रामारण्यपर्वतपातालादौ, अनुगामिनी - कृतान्वया। अत एव देहिनश्छायेवानित्यता, सर्वम् - निःशेषचराचरवस्तुसमूहम्, अन्वेति - पृष्ठलग्नेव सहैव गच्छति। ननु नैषा कदापि लक्ष्यत इति चेत् ? सत्यम्, यतः गूढा - अभावितानित्यभावनानां लीनाऽलक्ष्येति यावत्, न चैतावता तदभावः, इतरेषां प्रत्यक्षत्वादित्याह कम्मभावेऽणुवतंती, दीसंती य तधा तधा। देहिणं पकती चेव, लीणा वत्तेयऽनिच्चता।।२४-१८।। कर्मभावे - ज्ञानावरणादिकर्मणो विपाकसद्भावे, अनुवर्तमाना - तद्विपाकोदयानन्तरमेव स्वानुभावप्रदर्शनेन ज्ञापितनिजविद्यमानता, च: - पूर्ववृत्तसमर्थनव्यञ्जकः, तथा तथाश्रेष्ठिरङ्कादिव्यत्ययप्रकारेण दृश्यत एवानित्यता। न चैतादृशव्यत्ययकाल एव तदागमनम्, कथञ्चिज्जीवस्वभावभूतत्वात्तस्या इत्याह- देहिनाम् - जीवानाम्, उपलक्षणमेतदितरेषाम्, प्रकृतिरेव - कथञ्चित्स्वलक्षणमेव, लीना - मोहावृतप्रेक्षाचक्षुषाऽलक्ष्यमानाऽनित्यता वर्तेत - प्राकृतत्वाद्वर्तते - अशेषवस्तुषु विद्यमानैवास्ति। अनित्यताबीजमपि कर्मेत्याह जं कडं देहिणं जेणं, णाणावण्णं सुहासुहं। णाणावत्थंतरोवेतं, सब्वमण्णेवि (ति) तं तहा।। ॥२४-१९॥ येन - जीवेन, देहिनाम् - षट्कायजीवानां सम्बन्धि, यत्, १. मुद्रितेषु- ण्णेति, हस्तादर्शषु - प्रणेवि । Ashopnisad_2.p65 2nd Proof

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132