Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 54
________________ Re-ऋषिभाषितानि - धिया - सम्यग्ज्ञानानुविद्धमत्या राजत इति धीरः, तम्, तथा दान्तः - अनन्तानुबन्ध्याद्यवच्छेदेन क्षयादिभावमानीतः, सज्वलनावच्छेदेन च निगृहीतः क्रोधो येन सः, दान्तक्रोधः, तम् मानादिदमनोपलक्षणमिदम्, जितेन्द्रियम् - वशीकृतकरणग्रामम्। अत्राद्यविशेषणयुगलेन सम्यग्दर्शनज्ञानसम्पन्नता चरमविशेषणद्वयेन सच्चारित्रशालिता चोक्ता। एवं मोक्ष एव हेतौ फलोपचारात् सज्ज्ञानादिलक्षणमुक्तिमार्ग एव, परायणम् - एकायनीभावं प्राप्तम्, अत्रैवकारेणान्यत्रान्तर्भावव्यवच्छेदो बोध्यः, तम् - जीवन्मुक्तं महात्मानम्, देवा अपि नमस्यन्ति, आस्तां राजादिरित्यपिशब्दार्थः। सोऽयम् - सव्वत्थ विरये दंते सव्ववारीहिं वारिए। सव्वदुक्खप्पहीणे य सिद्धे भवति णीरये।।२९-१९।। सर्वत्र - तृणमणिस्त्रैणपलालादौ, विरतः - संहृतरत्यादिविकारः, दान्तः - जितात्मा, सर्वाभिः द्वारिकाभिः संवरछिट्टैराश्रवैरिति यावत्, वारितः - कृतनिवर्तनः, सर्वात्मना सुसंवृत इत्यर्थः। एवं चाश्रवनिरोधनिर्जराभ्यां क्रमेण कृत्स्नकर्मक्षयेण, प्रहीणानि सर्वदुःखानि यस्यासौ सर्वदुःखप्रहीणो भवति, हेतौ विलीने न फलस्य भाव इति न्यायात्, विशेषणपरनिपातः प्राकृतत्वात्, ततश्च नीरजाः - आत्मस्वरूपोपरञ्जकैः कर्मनोकर्मविकल्पादिलक्षणै रजोभिर्विमुक्तः, किमुक्तं भवति - सिद्धो भवतीति। कर्मक्षयोऽपि तत्क्षयोपशमक्रमेण सम्भवतीत्याह एवं से सिद्ध बुद्धे विरए विपावे दंते दवीए अलंताती णो - आर्षोपनिषद् - पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।। एवमित्यादि प्राग्वत्। इत्येकोनत्रिंशत्तमे वर्धमाननामाध्ययन आर्षोपनिषद्। ॥ अथ त्रिंशत्तमोऽध्यायः ।। इहानन्तराध्ययने सिद्धभावावाप्त्युपायोऽभिहितः, अत्रापि स एव प्रकारान्तरेणाभिधीयते - अधासच्चमिणं सव्वं वायुणा सच्चसंजुत्तेणं अरहता इसिणा बुइतं ।।३०-१॥ यथासत्यम् - सत्यं न्यायोपपन्नत्वमनतिक्रम्य व्यवस्थितम्, सर्वम् - निःशेषम्, इदम् - प्रत्यक्षत उपलभ्यमानं वस्तुजातम्। अयं भावः, इह हि जगति यस्य यस्य वस्तुनो हेतुरध्यक्षतो नोपलभ्यते, तत्र तत्रेन्द्रजालत्वान्याय्यत्वासत्त्वाद्याशङ्का न निवर्तते, एवं राजरङ्कादिवैचित्र्यमपि निर्मूलतयानुपश्यतः कस्यचित्तत्रासत्त्वाद्यारेकाऽभूत्, यन्निरासायेदं वाक्यमुदितम् - यथेत्यादि। केनैवमभिहितमित्याह- वायुना सत्यसंयुक्तेन - मनोवाक्कायविसंवादपरिहारत ऋतम्भरेण, अर्हतर्षिणोदितम्। उदितमेवोपपत्तिभिः समर्थयन्नाह इध जं कीरते कम्मं तं परत्तोवभुज्जइ। मूलसेकेसु रुक्खेसु फलं साहासु दिस्सति।।३०-२।। यत् शुभाशुभं कर्म इह जन्मनि क्रियते, तत् - हेतौ फलोपचारात्तदापादितं फलम्, परत्र - परलोके, उपभुज्यते - तत्कवानुभूयते। अत्रैव लौकिकं निदर्शनमाह - मूले सेको येषां ते मूलसेकाः, तेषु वृक्षेषु शाखासु फलं दृश्यते। न च कोऽपि

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132