Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 115
________________ Re-ऋषिभाषितानि -२१३ प्रायः संवत्सरशतमात्रत्वात्, चकारोऽनन्तरापेक्षया समुच्चये। नरकेषु च वासः- स्वकर्मवशतया निवसनम्, सुचिरं कालम्, जघन्यतोऽप्ययुतवत्सरम्, उत्कृष्टतश्च त्रयस्त्रिंशत्सागरोपमान् यावत्तत्रत्यायुर्भावात्। सर्वे च कामा निरयाणाम् - नरकाणाम्, मूलम् - प्रधानकारणम्, तदर्थं नरकहेतुरौद्रध्यानादियोगात्। तत्को बुधः, न ह्यल्पकालीनकामोपभोगेनातिदीर्घकालीननारकयातनाभ्युपगम उचित इति सद्बोधसम्पन्नः, कामेषु रमेत - रतिं बनीयात्, नाम अवधारणगर्भितसम्भ्रमे, नैव कश्चिद् बुधः सम्भवति यः कामरतिं कुर्यादित्याशयः, एतच्च कामशब्दत एव स्पष्टम्, तथा च तव्युत्पत्तिः - विसयसुहेसु पसत्तं, अबुहजणं कामराग-पडिबद्धं। ओकामयंति जीवं, धम्माओ तेण ते कामा - इति (धर्मसङ्ग्रहे - द्वितीयाधिकारे)। इदमपि बुधवृत्तमित्याहपावंण कुज्जा,ण हणेज्ज पाणे, अतीरमाणो वरमे कदायी। उच्चावएहिं सयणासणेहिं वायु ब्व जालं समतिक्कमेज्जा।। ॥४५-२॥ वेसमणेणं अरहता इसिणा बुइतं। पापम् - किमप्यकुशलानुष्ठानम्, न - नैव, कुर्यात् - विदध्यात्, दुःखं पापादित्युक्तेः (शास्त्रवार्तासमुच्चये) तथा प्राणान् - जीवान्, न हन्यात् - नैव हिंस्यात्, वक्ष्यते च - पाणी य पाणिघातं च पाणीणं च पिया दया। सव्वमेतं विजाणित्ता पाणिघातं विवज्जए - इति (ऋषिभाषिते ४५-१९)। २१४ - आर्षोपनिषद् - ननु किमयमेकान्तः ? नेत्याशयेनाह- अशक्नुवन् - ग्लानभावादिना सर्वथा हिंसापरिहारेऽसमर्थः, वाशब्द उत्सर्गभिन्नपक्षद्योतकः, तदा कदाचित् प्रवचनप्रतिपादितपञ्चकवृद्ध्या किञ्चित् प्रतिसेवेतापीति प्राग्वदनुसन्धेयम् (ऋषिभाषिते ४२-१)। किन्तु तदापि प्राणहननवर्जन एव रमेत, अहिवदेकान्तदृष्टितयोत्सर्ग प्रति दृढपक्षपातः स्यादित्याशयः। तथोच्चावचैः - एषणामुद्रानतिक्रमेणोपलब्धैर्मनोज्ञामनोज्ञैः, यथाकृतैरित्यर्थः, तथा शयनानि - शय्या वसतय इति यावत्, आसनानि - पीठिकादीनि, तैः प्राप्तैररक्तदुष्टतया तत्परिभोगं कृत्वा जालम् - रागादिग्रन्थग्रथितं पाशम्, वायुरिव - समीरणवदप्रतिबद्धतया समतिक्रामेत् - सम्यक्तयात्यन्तिकत्वेन चोल्लङ्घयेत्, यथा कदापि तादृशग्रन्थजालगोचरो न स्यात्, तथा विदध्यादिति हृदयम्। इति वैश्रमणेनार्हतर्षिणोदितम्। साम्प्रतमुक्तप्रतिपक्षमबुधजनं व्याचष्टेजे पुमं कुरुते पावं ण तस्सऽप्पा धुवं पिओ। अप्पणा हि कडं कम्मं अप्पणा चेव भुज्जती।। ॥४५-३।। यः पुमान् पापं कुरुते, तस्यात्मा न प्रिय इति ध्रुवम् - निश्चितम्। ननु कथमेतत् घटाकोटिमाटीकते यदात्मैवात्मनोऽप्रियस्स्यादित्यत्राह - हि - यतः, आत्मना कृतं कर्मात्मनैव भुज्यते, उक्तं च - न कोऽपि कर्मदायादः स्वयं स्वं कर्म भुज्यते - इति (त्रिषष्टिचरित्रे)। अतः पापकरणमेव तत्त्वतः स्वात्मनो

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132