Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 113
________________ ऋषिभाषितानि इति (नारदपरिव्राजकोपनिषदि ७ - १) । इत्थमेवास्य भावोञ्छयोगोऽपि सङ्गच्छते, तथा च तल्लक्षणम् जमण्णायमण्णाएण उप्पतिज्जति तं भावुछं भण्णति - इति (दशवैकालिक - चूर्णां ११-१६) । एवं च - - . २०९ पंचवणीमगसुद्धं जो भिक्खं एसणाए एसेज्जा । तस्स सुद्धा लाभा हणणादीविप्पमुक्कदोसस्स ।। ।।४१-१४।। जधा कवोता य कविजला य गावो चरंती इह पातडाओ। एवं मुणी गोयरियं चरेज्जा णो वीलवे णो वि य संजलेज्जा ।। ।।४१-१५।। प्राग्वत् (ऋषिभाषिते १२ / ३-२ ) । उपलक्षणमेतदन्येषामपि सच्चारित्रिचरितानाम्। एवम्भूतशुद्धजीवनजीविनो यद्भवति तदाहएवं से सिद्धे बुद्धे विरए विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ ।। त्ति बेमि ।। एवमित्यादि प्राग्वत् । इत्येकचत्वारिंशत्तम इन्द्रनागीयाध्ययन आर्षोपनिषद् । ।। अथ द्विचत्वारिंशत्तमोऽध्यायः ।। अनन्तराध्ययने शुद्धभिक्षावृत्तिरभिहिता, सा किमसंस्तरणे ऽप्याचरणीया, उतास्ति कश्चिद्विशेष इत्यत्राह 'अप्पेण बहुमेसेज्जा जेट्ट मज्झिम कण्णसं । णिरवज्जे ठितस्स तु णो कप्पति पुणरवि सावज्जं सेवित्तए ।' सोमेण अरहता इसिणा बुझतं । । ४२ - १ ।। आर्षोपनिषद् अल्पेन - अशक्यपरिहारतया प्रवचनप्रतिपादितविधिनाऽपवादपदेन प्रतिसेवितेनाणुदोषेण, बहुम् प्रवचनाव्युच्छित्तिप्रभृति प्रभूतलाभम् स बहुलाभोऽपि कथञ्चित् ज्येष्ठादिभेदभिन्नो भवतीत्याह - ज्येष्ठं मध्यमं कनीयसमिति, एषयेत् - इच्छेत्, अशठः श्रमण इति शेषः । उक्तं च - उस्सग्गेण निसिद्धं, अववायपयम्मि सेवए असढो । अप्पेण बहू इच्छइ विसुद्धमालंबणओ समणो ।। सालंबणो पडतो अप्पाणं दुग्गमे वि धारेइ। इय सालंबणसेवी धारेई जई असढभावं ।। काहं अच्छित्तिं अहवा अहीहं, तवोविहाणेण य उज्जमिस्सं । गच्छं च नीई इअ सारइस्सं, सालंबसेवी समुवेइ मुक्खं (पुष्पमालायाम् २३७ - २३९ ) । तदेतद्विशेषविषये वक्तव्यम्, सामान्यविचारे तु निरवद्ये संयमे स्थितस्य पुनरपि सावद्यम् - स्वरूपहिंसाद्यनुष्ठानमपि, सेवितुम् न तु - नैव कल्पते । इति सोमेनार्हतर्षिणोदितम्। एवं प्रवचनमुद्रानतिक्रमेण यत्पर्यवस्यति इति २१० - तदाह एवं से सिद्धे बुद्धे विरए विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छड़ त्ति बेमि ।। एवमित्यादि प्राग्वत् । इति द्विचत्वारिंशत्तमे सोमीयाध्ययन आर्षोपनिषद् । ॥ अथ त्रिचत्वारिंशत्तमोऽध्यायः ।। अनन्तराध्ययने निरवद्यवृत्तिरुपदिष्टा, सा च निश्चयनयेन साम्य एव पर्यवस्यतीत्यत्र तदेवाह -

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132