Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
770 ऋषिभाषितानि
-
मनोज्ञभोगानामपि तत्त्वतो विडम्बनारूपत्वादित्याशयेनाह - हेमं वा आयसं वा वि बंधणं दुक्खकारणा (णं ? ) । महग्घस्सावि दंडस्स णिवाए दुक्खसंपदा ।।४५-५०।। हैमम् – सुवर्णघटितम्, आयसम् - लोहनिर्मितम्, बन्धनम् - निगडादि, दुःखकारणम् – निरोधव्यथाप्रयोजकम्, वाशब्दौ उभयत्र समानैव दुःखहेतुतेत्यर्थस्य ज्ञापकौ । अपिः - समुच्चये, महार्घ्यस्यापि - महामूल्यस्यापि दण्डस्य - राजतादियष्ट्याः, निपाते - कथञ्चित् शिरः प्रभृत्यङ्गेषु पतने सति दुःखसम्पत् - वेदनावाप्तिरेव भवति, एवं व्यवहारतः सुखहेतुत्वेनाभिमता अपि विषयास्तत्त्वतो दुःखहेतव एवेति तत्तृष्णात्यागो विधेयः ।
एवमेव परीषहादावपि सुखकारणताविभावनेनापातरुद्रेष्वप्येषु, नारुचिः कर्तव्या, नापि तत्कर्तरि प्रद्वेषः कार्यः, सहायभूतत्वात्तस्येत्याह
- २४१
आसज्जमाणे दिव्वम्मि धीमता कज्जकारणं । कत्तारे अभिचारिता विणीयं देहधारणं । । ४५-५१ ।। दिव्ये - देवकृत उपसर्गे, उपलक्षणान्मनुजादिकृतोपसर्गग्रहः, तस्मिन् आसाद्यमाने - आत्मना प्राप्यमाणे, स्वस्मिन्नुपसर्गेण पीडायामुत्पाद्यमानायां सत्यामिति भावः, धीमता - नत्थि जीवस्स नासो त्ति एवं पेहेज्ज संजए ( उत्तराध्ययने २ - २९) इति पारमर्षप्रोक्तप्रेक्षाशालिना, कर्तरि उपसर्गकारिदेवादौ, कार्यम् -
१. क. ख. ग. ज. ट . ठ.ढ. ण... ध.न.प.फ. कारणा। घ कारणां च झत - कारणं । २. क.ज.ठ... ध.न.प.फ पृभिवारिता । ग.घ.त अभिचारिता । च.झ अभिवारिता । ट रिभूवारिता ।
-
आर्षोपनिषद्
कृत्स्नकर्मक्षयलक्षणं स्वाभिप्रेतं साध्यम्, तस्य कारणम् निष्पादनम् सिद्ध्यभियोग इति यावत्, अभिचार्य अभिविधिना सम्बध्य, अयमुपसर्गकर्ता मत्कार्यसाधकत्वेन मत्सहाय एवेति भावसारं प्रतिपद्येति भावः, देहधारणम्, पदैकदेशे तत्समुदायोपचाराद् देहधारणौत्सुक्यम्, मा भून्मे देहस्य विनाश इत्याकारका चित्तवृत्तिरित्यर्थः, तद्यथा विनीतं अपनीतं भवति, तथा यतितव्यमिति शेषः, अन्यथा प्रतिपातसम्भवात् एतदेव निदर्शनैः स्फुटयति
'सागारेण विणिज्जोको आतुरो वा तुरंगमे ।
भोयणं भिज्जदिहि वा जाणेज्जा देहरक्खणं ।। ।।४५-५२।। अगारेण गृहेन सह वर्तत इति सागार:, तेन सह विनियोगः स्तोकोऽपि प्रसङ्गो, एष च यतीनां कलङ्कावहत्वात् पतनहेतुः, यदार्षम् - थोवो वि गिहिपसंगो जइणो सुद्धस्स पंकमावहई - इति ( उपदेशमालायाम् ११३ ) |
यथा वाऽऽतुरः - रुग्ण, तुरङ्गमे - अश्व आरोहणं कुर्यात्, एतदपि पतनपीडावहमेव, यथा वा भेद्या- भेदितुं शक्या, दिहि त्ति धृतिः- धैर्यम्, यतस्तत् भेद्यधृति भोजनम् - तथाविधो मन्त्रचूर्णादियोगनिष्पन्न आहारः, एतदप्याहारयतो ग्रथिलताद्यपाय
२४२
-
-
-
9. क. ख. ज. ठ.ढ... ध.न.प.फ सागारेण विणिज्जोको घ. झ सागरेणावणिजो को च.ट. तद सागरे णावणिज्जो को । २. क. ख.ज.ट. ठ.ढ....ध.न.प.फ भिज्जदिहि । ग.घ.च.झ.त भिज्जएहिं ।

Page Navigation
1 ... 127 128 129 130 131 132