Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 55
________________ ९४ Re-ऋषिभाषितानि पर्यनुयुङ्क्ते - कथमन्यत्र सेकोऽन्यत्र फलोत्पत्तिरिति, मूलशाखाद्यवच्छेदेन वृक्षस्य भिन्नत्वेऽपि वस्तुत एकत्वात्। एवं नरामरादिपर्यायपरावृत्तावप्यात्मनो द्रव्यत्वेनैकत्वाद्य एव कर्मकर्ता स एव तत्फलभोक्तेति सर्वमवदातम्। निदर्शनान्तरमाह - जारिसं वुष्पते बीयं तारिसं बज्झए फलं। णाणासंठाणसंबद्धं णाणासण्णाभिसण्णितं।। ॥३०-३॥ यादृशं बीजमुप्यते - वपनक्रियाविषयीक्रियते, तादृशं फलं वृन्तादौ बध्यते - निर्वर्त्यते। कीदृशमित्याह - नाना - अनेकप्रकाराणि, संस्थानानि - अवस्थाविशेषरूपाणि - नानासंस्थानानि, तेषु सम्बद्धम् - कृतसम्बन्धम्, तथा नाना सञ्जाः - सहकारनिम्बकदलीप्रमुखा आख्याः, ताभिरभिसज्ञितम् - विहितव्यपदेशम्। उपनयति - जारिसं किज्जते कम्मं तारिसं भुज्जते फलं। णाणापयोगणिवत्तं दुक्खं वा जइ वा सुहं।। ॥३०-४॥ एवं यादृशं शभाशुभं कर्म क्रियते तादृशमेव फलं भुज्यते, पुनः कीदृशमित्याह - नाना - अनेकप्रकारः, कर्मोदयनिबन्धनानां प्रकर्षण - अवन्ध्यरूपेण, योगः - प्रयोगः, तेन निर्वृतम् - नानाप्रयोगनिर्वृतम्, पुनः कीदृशमित्याह - दुःखं वा - दुःखात्मकं वा, यदि वा सुखम् - सुखात्मकम्। अत्र यादृशमित्यादि सामान्यतोऽभिहितम्, तदेव विशेषाभिधानेन आर्षोपनिषद् - स्पष्टयति - कल्लाणा लभति कल्लाणं, पावं पावा तु पावति। हिंसं लभति हतारं, जइत्ता य पराजयं।।३०-५।। कल्याणाः - परेषां कल्याणे कारणभूताः, हेतौ फलोपचारात्, कल्याणम् - अभ्युदयादिलक्षणमात्मनः श्रेयः, लभन्तेप्राप्नुवन्ति। पापास्तु पापम् - दुःखम्, हेतौ फलोपचारात्, प्राप्नुवन्ति। हिंसन् - प्राणिनं व्यापादयन्, हन्तारम् स्वात्मव्यापादयितारम्, लभते, हिंसाकृतकर्मविपाककालेऽवश्यतया प्राप्नोति, परान हिंसन् स्वयं हिंस्यत इति तात्पर्यम्। तथा जित्वा च - परेषां पराजयं कृत्वा, स्वयं पराजयं लभते। तथा - सूदणं सुदइत्ताणं णिदित्ता वि अ जिंदणं। अक्कोसइत्ता अक्कोसं णस्थि कम्मं णिरत्थकं।। ॥३०-६॥ सूदयित्वा - मारयित्वा, सूदनम्, आत्मन एव मारणं लभते, परान् निन्दित्वाऽपि च निन्दनं लभते, निन्दापात्रं भवतीत्यर्थः, आक्रोश्य चाक्रोशं लभते, यतः कर्म निरर्थकम् - निष्प्रयोजनम्, नास्ति। एतदेव कर्मत्वेन परिणतस्य कार्मण-वर्गणापुद्गलस्य प्रयोजनं यत् कः स्वानुरूपं फलं दातव्यमिति। यद्वा कर्मेति शुभाशुभकृत्यमेव, तच्च न निरर्थकम् - निष्फलं भवति, कृतनाशप्रसङ्गादिति। तस्माच्छुभफलमिच्छता शुभं कर्म कर्तव्यम्, तदर्थं चात्मना शुभेन भाव्यम्, यतः -

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132