Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 99
________________ Re-ऋषिभाषितानि - -१८१ जस्स कज्जस्स जो जोगो साहेतुं जे ण पच्चलो। कज्जं वज्जेति तं सव्वं कामी वा णग्गमुंडणं।। ॥३८-१९॥ यो यो योगो यस्य कार्यस्य निष्पत्तिं साधयितुं प्रत्यल: समर्थो न भवति, तं सर्वं कार्यम् - अनन्तरोक्तयोगम्, वर्जयति। अत्र निदर्शनमाह - कामी - कामेन सप्रयोजनः पुरुषः, स यथा नग्नः - भावप्रधानत्वेन निर्देशस्य नाग्न्यम्, मुण्डनं च - शिर:केशापनयनम्, नाग्न्येन सहितं मुण्डनम् - नाग्न्यमुण्डनम् तद् वर्जयति। कामी ह्युज्ज्वलवेशालङ्कारकेशादिविभूषित एव स्वप्रयोजनसाधनसमर्थो भवति, न तु नाग्न्यादिना, अतः स तत् स्वप्रयोजनसिद्धिविधावप्रत्यलं मत्वा वर्जयति, एवं मुमक्षुणाऽपि यन्मुक्तिसाधनं न भवति तद्वर्जनं कर्तव्यम्। असमर्थस्यापि वर्जनं तत्त्वज्ञानेन विना दुर्घटमिति तदेव परिवेषयति - जाणेज्जा सरणं धीरो ण कोडिं 'देति दुग्गतो। ण सीहं दप्पियं छेयं णेभं भोज्जा हि जंबुओ।। ॥३८-२०॥ धीरः - दृष्टिवादोपदेशिक्या धिया विराजितः, शरणम् - स्वप्रयोजनसिद्ध्यनुगुणमाश्रयम्, जानीयात् - विवेकप्रज्ञागोचरीविदध्यात्। न ह्यनीदृशात्साधनात्सिद्धिगन्धोऽपीति। अत्र निदर्शनमाह १८२ - आर्षोपनिषद् - - दुर्गतः - रोरः, कोटिम् - कोटिमितं धनम्, न ददाति, नैव दातुं शक्नोति, काकिण्या अपि तत्पार्श्वेऽभावादिति। ननु मा भूत् तदानीं तत्पार्श्वे कोटिद्रव्यम्, पश्चादर्जयित्वा दास्यतीति चेत् ? न, भिक्षावृत्तौ तदर्जनस्याप्यसम्भवात्, रोरत्वहेतुकदुष्कर्मोदयेऽवस्थान्तरोदयायोगाच्च। ततोऽसौ कोटिदानेऽसमर्थ एव विज्ञेयः, अत्रापि दृष्टान्तमुपदर्शयति- जम्बूकः - शृगालः, न दृप्तं सिंहं छेकम् - निपुणं च इभम् - गजम्, न हि भुङ्ग्यात् - तद्धं कृत्वा कवलीकर्तुं नैव शक्नोति। अत्र सिंहादेर्विशिष्टत्वेनोपादानाद् ‘ग्लान्यादिना तत्पराभवः सम्भवेदिति चोद्यमपि निराकृतम्। तस्मात् सार्थक एवारम्भे यत्नः श्रेयानिति स्थितम्। तत्र यततोऽपि पिशाचा इव रागाद्या छलमवाप्य बाधयेयुरिति तच्छलनिमित्तस्यैव वारणमुपदिशति - 'वेसपच्छाणसंबुद्धं 'सव्वद्धं वारए सदा। णाणाअरतिपायोग्गं णालं धारेतु बुद्धिमं।। ॥३८-२१।। व्येष्यम् - अत्यन्तमभिलषणीयम्, मनोरममिति यावत्, पच्छाणमिति प्रच्छादनम् - कम्बलप्रभृतिः, व्येष्यप्रच्छादनत्वेन सम्बुद्धम् - व्येष्यप्रच्छादनसम्बुद्धम्, यदपि कम्बलादि ममा१. क.च.ज.झ.ढाण.ध.न.प.फ - पच्छा । ख.ट..थ - सच्छा । घ.छ.त - पच्चा । २. क..ण. - बुद्धं सव्व । झ - बद्धेऽसंव। ज.थ - बद्धेसव । घ.छ.त.च . बढेसंब। ध.प - बद्धंसव्व । न.फ - वद्धं सव्व । ३. घ.छ.झ.त - धारेतु । ध - धीरेति। शेषेषु - धारेति । १. क.ढ़ - गोसादे । ख.थ - गासा। ट - गो साहेयं जेण। ण - गोसादेतुं । शेषेषु - जोगोसाहे । २. क.ग.ढाण.ध.न.प - देति। ठ - दिति । ख.ज.ट.थ . दिति । ड - देइ। घ.छ.झ - एति । फ - देति ।

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132