Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 101
________________ - १८५ न-ऋषिभाषितानि परमार्थविधौ, विभावयेत्, न केवलं बाह्याकारं विलोक्यैव मुह्येदपि तु सर्वत्र स्वरूपचिन्तां कुर्यादिति भावः, मोहस्यातत्त्वदर्शनहेतुकत्वात्। उक्तं च - बाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी। तत्त्वदृष्टेस्तु सा साक्षाद्विण्मूत्रपिठरोदरी - इति (ज्ञानसारे १९-४)। लोकेऽपि बाह्याभ्यन्तररूपविपर्यासे सत्यपि तदनाकलय्य यो मुह्यति स विनश्यति, यस्तु सतत्त्वचिन्तां करोति, स महापायाद्विमुच्यते, यथा - किमर्थमयं व्याधः - लुब्धकः, तमेव विशेषयति - पक्षिणो गृहीत्वा भोज्यार्थं दारयतीति - पक्षिदा, गायति - मधुरगीतोद्गीरणपरायणो दृश्यते ? नूनमस्य गीतप्रियपक्षिहिंसाभिप्रायो लक्ष्यत इति। यद्वाप्यसौ तूष्णीकः - मूकः, तदाप्यस्य तथाविधावस्थस्य विहङ्गमस्य ग्रहणार्थमेव शान्तिमयो बाह्याकारः सम्भाव्यत इति। यस्त्वेवं सतत्त्वचिन्तां न कुरुते, स तु व्याधस्थानीयमोहप्रयुक्तवधादिवेदनां विषहत इति सर्वत्र तत्त्वचिन्तनेन मोहोदयं पराकृत्य तत्परिहार विधेयः। किञ्चित्तु परिहाराविषयमपि भवतीति विवेचयति - कज्जणिव्वत्तिपाओग्गं आदेयं कज्जकारणं। मोक्खनिव्वत्तिपाओग्गं विण्णेयं तं विसेसओ।। ॥३८-२४॥ कार्यम् - सिषाधयिषितं कृत्यम्, तस्य निर्वृतिः - उपायेन साधनम्, तस्मिन् प्रायोग्यम् - प्रत्यलम्, किमुक्तं भवति - १८६ - आर्षोपनिषद् - कार्यकारणम् - साध्यनिष्पादनसमर्थहेतुः, तदादेयम् - अपरिहार्यतया ग्रहणयोग्यं भवति। एवं सामान्येनोक्त्वा प्रकृते योजयति - मोक्षः - मुक्तिलक्षणं साध्यम्, तस्य निर्वृत्तिः - आत्मनि तत्पर्यायपरिणतिः, तस्मिन् प्रायोग्यम् - समर्थकरणम्, तद् विशेषतः - सर्वयत्नेन विज्ञेयम्, एतद्विज्ञानेनैव परमार्थतो विज्ञतायोगात्। एतद्विज्ञानमपि सद्गुरुसमायोगात्, तत्परिज्ञानं च न वेशादिमात्रतः, अनेकान्तोपलब्धेरित्याह परिवारे चेव वेसे य भावितं तु विभावए। परिवारे वि गंभीरे ण राया णीलजंबुओ।।३८-२५।। परिवारे च वेषे चापि सति भावितं तु - भावितमेव विभावयेत् - सद्गुरुत्वेन निश्चिनुयात्। अयं भावः - न भक्तादिपरिकरदर्शनमात्रेण शिष्यसमुदायदर्शनमात्रेण वाऽयं महान् इति सम्प्रधार्यम्, नाऽपि वेषादिलिङ्गनिभालनत एवायमेव सद्गुरु इत्याग्रहिणा भाव्यम्, किन्तु पारमर्षपरिणतिसम्पन्न एव संविज्ञगीतार्थे सद्गुरुरयमिति विभावना कर्तव्या, इत्थमेव पाण्डित्योपपत्तेः, उक्तं च - बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम्। आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन - इति (षोडशके १-२)। ननु निर्गुणस्य परिवार एवासम्भवतीति स एवास्माकं तत्परिज्ञानबीजमिति चेत् ? अत्राह- परिवारे गम्भीरेऽपि - अतुच्छेऽपि - महत्यपि, आस्तां लघावित्यपिशब्दार्थः, नीलजम्बूकः - हरित्वर्णः शृगालः, नीलनामा वा कथाविशेषप्रसिद्धः

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132