________________
- १८५
न-ऋषिभाषितानि परमार्थविधौ, विभावयेत्, न केवलं बाह्याकारं विलोक्यैव मुह्येदपि तु सर्वत्र स्वरूपचिन्तां कुर्यादिति भावः, मोहस्यातत्त्वदर्शनहेतुकत्वात्। उक्तं च - बाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी। तत्त्वदृष्टेस्तु सा साक्षाद्विण्मूत्रपिठरोदरी - इति (ज्ञानसारे १९-४)।
लोकेऽपि बाह्याभ्यन्तररूपविपर्यासे सत्यपि तदनाकलय्य यो मुह्यति स विनश्यति, यस्तु सतत्त्वचिन्तां करोति, स महापायाद्विमुच्यते, यथा - किमर्थमयं व्याधः - लुब्धकः, तमेव विशेषयति - पक्षिणो गृहीत्वा भोज्यार्थं दारयतीति - पक्षिदा, गायति - मधुरगीतोद्गीरणपरायणो दृश्यते ? नूनमस्य गीतप्रियपक्षिहिंसाभिप्रायो लक्ष्यत इति। यद्वाप्यसौ तूष्णीकः - मूकः, तदाप्यस्य तथाविधावस्थस्य विहङ्गमस्य ग्रहणार्थमेव शान्तिमयो बाह्याकारः सम्भाव्यत इति।
यस्त्वेवं सतत्त्वचिन्तां न कुरुते, स तु व्याधस्थानीयमोहप्रयुक्तवधादिवेदनां विषहत इति सर्वत्र तत्त्वचिन्तनेन मोहोदयं पराकृत्य तत्परिहार विधेयः। किञ्चित्तु परिहाराविषयमपि भवतीति विवेचयति -
कज्जणिव्वत्तिपाओग्गं आदेयं कज्जकारणं। मोक्खनिव्वत्तिपाओग्गं विण्णेयं तं विसेसओ।।
॥३८-२४॥ कार्यम् - सिषाधयिषितं कृत्यम्, तस्य निर्वृतिः - उपायेन साधनम्, तस्मिन् प्रायोग्यम् - प्रत्यलम्, किमुक्तं भवति -
१८६
- आर्षोपनिषद् - कार्यकारणम् - साध्यनिष्पादनसमर्थहेतुः, तदादेयम् - अपरिहार्यतया ग्रहणयोग्यं भवति।
एवं सामान्येनोक्त्वा प्रकृते योजयति - मोक्षः - मुक्तिलक्षणं साध्यम्, तस्य निर्वृत्तिः - आत्मनि तत्पर्यायपरिणतिः, तस्मिन् प्रायोग्यम् - समर्थकरणम्, तद् विशेषतः - सर्वयत्नेन विज्ञेयम्, एतद्विज्ञानेनैव परमार्थतो विज्ञतायोगात्। एतद्विज्ञानमपि सद्गुरुसमायोगात्, तत्परिज्ञानं च न वेशादिमात्रतः, अनेकान्तोपलब्धेरित्याह
परिवारे चेव वेसे य भावितं तु विभावए। परिवारे वि गंभीरे ण राया णीलजंबुओ।।३८-२५।।
परिवारे च वेषे चापि सति भावितं तु - भावितमेव विभावयेत् - सद्गुरुत्वेन निश्चिनुयात्। अयं भावः - न भक्तादिपरिकरदर्शनमात्रेण शिष्यसमुदायदर्शनमात्रेण वाऽयं महान् इति सम्प्रधार्यम्, नाऽपि वेषादिलिङ्गनिभालनत एवायमेव सद्गुरु इत्याग्रहिणा भाव्यम्, किन्तु पारमर्षपरिणतिसम्पन्न एव संविज्ञगीतार्थे सद्गुरुरयमिति विभावना कर्तव्या, इत्थमेव पाण्डित्योपपत्तेः, उक्तं च - बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम्। आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन - इति (षोडशके १-२)।
ननु निर्गुणस्य परिवार एवासम्भवतीति स एवास्माकं तत्परिज्ञानबीजमिति चेत् ? अत्राह- परिवारे गम्भीरेऽपि - अतुच्छेऽपि - महत्यपि, आस्तां लघावित्यपिशब्दार्थः, नीलजम्बूकः - हरित्वर्णः शृगालः, नीलनामा वा कथाविशेषप्रसिद्धः