________________
-१८३
Re-ऋषिभाषितानि भीष्टमिदमिति व्येष्यत्वेन विज्ञातं स्यादित्यर्थः, तत् सदा सर्वाद्धम् - सर्वकालं च वारयेत् - परिहारगोचरीकुर्यात्, अन्यथा पञ्चमव्रतक्षतेः, ननु सदा-इत्यनेनैव सर्वाद्धमिति गतार्थमिति चेत् ? न, यत्किञ्चित्कालावच्छेदेनैव नित्यताप्रतीतिप्रसङ्गनिवारणेन तस्य सार्थक्यात्, दृश्यते च लोकेऽपीदृशो व्यवहारः, यथा-वत्सरं यावदसौ सदाऽप्याययाविति।
अभीष्टनिवारणं च तद्रत्या संयमारतिर्न स्यादेतदर्थमिति स्फुटयन्नाह- नाना - अनेकप्रकाराः, अरतयः - संयमानुष्ठाननिर्विण्णताः, ताश्चाध्यवसायभेदादनेकप्रकारा भवन्तीति नानात्वमुक्तम्। ता उत्पादयितुं प्रकर्षणाभिविधिना योग्यम् - शक्तम् - प्रायोग्यम्, तदेवातिप्रियकम्बलादि, तद् धारयितुं - स्वोपयोगे व्यापारयितुम्, स्वाधीनतया न्यासीकर्तुं वा, बुद्धिमान् - रागाद्यनर्थहेतुजनक एव मत्परमशत्रुरितिमतिसम्पन्नः, नालम् - न समर्थो भवति, अकार्येऽनर्थहेतौ वाऽसामर्थ्यस्यैव प्रेक्षावत्तालिङ्गत्वात्। अत एव - बंभचारी जति कुद्धो वज्जेज्ज मोहुदीवणं। ण मूढस्स तु बाहस्स मिगो अप्पेति सायकं।।
॥३८-२२॥ ब्रह्मचारी यदि क्रुद्धोऽपि कुतश्चित् कारणात् स्यात्, तदाप्यसौ मोहोद्दीपनम् - स्वपरमोहोदीरणहेतुवचनं तादृशचेष्टां च, वर्जयेत् - परित्यजेत्, न चैवमक्रुद्धावस्थायां मोहोद्दीपनानुमतिप्रसङ्ग इति वाच्यम्, सर्वदा सर्वथा च तनिषेध एव
१८४ -
- आर्षोपनिषद् - तात्पर्यप्रतीतेः, यदि कोपाकुलत्वेऽपि तन्निषेधः, तदान्यथा तु किं वाच्यमित्याशयः।
देशकालाधनवच्छिन्ननिषेधमेव प्रतिवस्तूपमया समर्थयति - मृगः - हरिणः, मूढस्य व्याधस्य - कथञ्चिदिषुविषयम् - "कुत्र मया काण्डं न्यस्तम् ? - इत्याद्याकारकं मोहमापन्नस्य, सायकम् - बाणम्, न तु - नैव, अर्पयति, तथाकृते स्वात्मविघातध्रौव्यात्।
अत्रैवमुपनयः, ब्रह्मचर्यमित्यनादिकालीनव्याधसङ्काशस्य मोहस्य मौढ्यम्, ब्रह्मचर्यभावे तस्य स्वानुभावमनुदर्शयितुमसमर्थत्वात्, लोकेऽपि समर्थस्य चेतनाविकृतेः कथञ्चिदापन्नेऽसामर्थ्य मूढोऽयमभूदिति व्यपदिश्यते। एवं ब्रह्मचर्यप्रभावान्मोहस्य मौग्ध्ये सञ्जातेऽपि यदि ब्रह्मचरः स्वयमेव क्रोधादिवशगो मोहोद्दीपनं कुर्यात्, तदा मोहस्यासामर्थ्यमपाक्रियते, एवं च स्वयमेव परिपूरितप्रतिपक्षस्थामाऽसौ ब्रह्मपरिणतात्मपर्यायविलोपमेव कुरुत इत्यत्राजाकृपाणीयन्यायापातः।
तस्माद्यथाऽज्ञकल्पोऽपि मृगो मूढस्य व्याधस्य सायकं नार्पयत्येव, तथा ब्रह्मचार्यपि सर्वावस्थास्वपि मोहोद्दीपनपरिहारमेव विदध्यात्। मोहोदयपरिहार एवोपायमाह
पच्छाणं चेव रूवं च णिच्छयम्मि विभावए। किमत्थं गायते वाहो तुण्हिक्को वा वि पक्खिदा।।
॥३८-२३॥ प्रच्छाद्यतेऽनेन वस्तुन आन्तरस्वरूपमिति प्रच्छादनम् - बाह्याकारादि, तच्च रूपं च - आन्तरिकसंतत्त्वम्, निश्चये - १. सतत्त्वम् = स्वरूपम्, सह तद्भावेन वर्तते - इति (व्युत्पत्तिरत्नाकरे - १३७६)।