________________
Re-ऋषिभाषितानि -
-१८१ जस्स कज्जस्स जो जोगो साहेतुं जे ण पच्चलो। कज्जं वज्जेति तं सव्वं कामी वा णग्गमुंडणं।।
॥३८-१९॥ यो यो योगो यस्य कार्यस्य निष्पत्तिं साधयितुं प्रत्यल: समर्थो न भवति, तं सर्वं कार्यम् - अनन्तरोक्तयोगम्, वर्जयति।
अत्र निदर्शनमाह - कामी - कामेन सप्रयोजनः पुरुषः, स यथा नग्नः - भावप्रधानत्वेन निर्देशस्य नाग्न्यम्, मुण्डनं च - शिर:केशापनयनम्, नाग्न्येन सहितं मुण्डनम् - नाग्न्यमुण्डनम् तद् वर्जयति। कामी ह्युज्ज्वलवेशालङ्कारकेशादिविभूषित एव स्वप्रयोजनसाधनसमर्थो भवति, न तु नाग्न्यादिना, अतः स तत् स्वप्रयोजनसिद्धिविधावप्रत्यलं मत्वा वर्जयति, एवं मुमक्षुणाऽपि यन्मुक्तिसाधनं न भवति तद्वर्जनं कर्तव्यम्। असमर्थस्यापि वर्जनं तत्त्वज्ञानेन विना दुर्घटमिति तदेव परिवेषयति -
जाणेज्जा सरणं धीरो ण कोडिं 'देति दुग्गतो। ण सीहं दप्पियं छेयं णेभं भोज्जा हि जंबुओ।।
॥३८-२०॥ धीरः - दृष्टिवादोपदेशिक्या धिया विराजितः, शरणम् - स्वप्रयोजनसिद्ध्यनुगुणमाश्रयम्, जानीयात् - विवेकप्रज्ञागोचरीविदध्यात्। न ह्यनीदृशात्साधनात्सिद्धिगन्धोऽपीति। अत्र निदर्शनमाह
१८२
- आर्षोपनिषद् - - दुर्गतः - रोरः, कोटिम् - कोटिमितं धनम्, न ददाति, नैव दातुं शक्नोति, काकिण्या अपि तत्पार्श्वेऽभावादिति।
ननु मा भूत् तदानीं तत्पार्श्वे कोटिद्रव्यम्, पश्चादर्जयित्वा दास्यतीति चेत् ? न, भिक्षावृत्तौ तदर्जनस्याप्यसम्भवात्, रोरत्वहेतुकदुष्कर्मोदयेऽवस्थान्तरोदयायोगाच्च। ततोऽसौ कोटिदानेऽसमर्थ एव विज्ञेयः, अत्रापि दृष्टान्तमुपदर्शयति- जम्बूकः - शृगालः, न दृप्तं सिंहं छेकम् - निपुणं च इभम् - गजम्, न हि भुङ्ग्यात् - तद्धं कृत्वा कवलीकर्तुं नैव शक्नोति। अत्र सिंहादेर्विशिष्टत्वेनोपादानाद् ‘ग्लान्यादिना तत्पराभवः सम्भवेदिति चोद्यमपि निराकृतम्।
तस्मात् सार्थक एवारम्भे यत्नः श्रेयानिति स्थितम्। तत्र यततोऽपि पिशाचा इव रागाद्या छलमवाप्य बाधयेयुरिति तच्छलनिमित्तस्यैव वारणमुपदिशति -
'वेसपच्छाणसंबुद्धं 'सव्वद्धं वारए सदा। णाणाअरतिपायोग्गं णालं धारेतु बुद्धिमं।।
॥३८-२१।। व्येष्यम् - अत्यन्तमभिलषणीयम्, मनोरममिति यावत्, पच्छाणमिति प्रच्छादनम् - कम्बलप्रभृतिः, व्येष्यप्रच्छादनत्वेन सम्बुद्धम् - व्येष्यप्रच्छादनसम्बुद्धम्, यदपि कम्बलादि ममा१. क.च.ज.झ.ढाण.ध.न.प.फ - पच्छा । ख.ट..थ - सच्छा । घ.छ.त - पच्चा । २. क..ण. - बुद्धं सव्व । झ - बद्धेऽसंव। ज.थ - बद्धेसव । घ.छ.त.च . बढेसंब। ध.प - बद्धंसव्व । न.फ - वद्धं सव्व । ३. घ.छ.झ.त - धारेतु । ध - धीरेति। शेषेषु - धारेति ।
१. क.ढ़ - गोसादे । ख.थ - गासा। ट - गो साहेयं जेण। ण - गोसादेतुं । शेषेषु - जोगोसाहे । २. क.ग.ढाण.ध.न.प - देति। ठ - दिति । ख.ज.ट.थ . दिति । ड - देइ। घ.छ.झ - एति । फ - देति ।