________________
-१७९
Re-ऋषिभाषितानि -
दुहरूवा दुरंतस्स णाणावत्था वसुंधरा।। कम्मादाणाय सव् पि कामचित्ते व कामिणो।।
॥३८-१६॥ दुष्टः - नारकयातनाद्यपायाकुलः, अन्तः - पर्यवसानम्, यस्य स दुरन्तः, अदान्तात्मेत्याशयः, तस्य, अरण्याश्रमाद्यनेकावस्था यस्याः सा - नानावस्था, तामेव विशेषयति - दुःखरूपा, तद्धेतुभावात्, केयमित्याह - वसुन्धरा - अरण्यादिभूमिः, तस्याः सर्वमपि स्थानं कर्मादानाय - पापकर्म - बन्धाय भवति।
अत्रोदाहरणमाह - यथा कामिनः - इच्छामदनकामकलङ्कितस्य, यत्र तत्रापि तिष्ठतः, कामसञोपयुक्तं चित्तम् - कामचित्तम्, तदेव भवति, तथाऽदान्तेन्द्रियस्य यत्र तत्रापि बद्धस्थिते?ध्यानानुभावेनाशुभकर्मबन्ध एवेति।
ननु प्रतिपद्यामो वयं दमम्, किन्तु योऽदान्तदशायां कर्मबन्धः कृतः, तद्विपाकः किं वेदनीय एव ? किमुतास्त्यपि कथञ्चिन्मोक्ष इत्यत्राह -
सम्मत्तं च दयं चेव णिण्णिदाणो य जो दमो। 'ततो जोगो य सव्वो वि सव्वकम्मक्खयंकरो।।
||३८-१७॥ सम्यक्त्वं च - सद्दर्शनम्, एतेन सम्यग्ज्ञानग्रहः, सहभावित्वात्, दया चैव - षट्कायसंयमश्च, विभक्तिव्यत्यासः १. घ.च.छ.झ.त - तवो जो। ड - तव्यो । न - तेतोजो। शेषेषु - ततो जो ।
१८०
आर्षोपनिषद् - प्राकृतत्वात्, यश्च निर्निदानो दमः, इतरस्य दुरनुबन्धित्वाद्विशिष्ट - ग्रहणम्, मोक्षाभिलाषितयेन्द्रियकषायनिग्रह इति तदर्थः, एतेन सच्चारित्रग्रहः। ततश्च - अनन्तरोक्तात् त्रितयात् प्रवर्तमानः सर्वोऽपि योगः - मनोवाक्कायप्रवृत्तिः, सर्वकर्मक्षयं करोतीति सर्वकर्मक्षयङ्करः, अनन्तरोक्तयोगस्य कृत्स्नकर्मेन्धनपरिप्लोषहेतुशुक्लध्यानानलोत्पत्तावरणिस्थानीयत्वात्।
निरनुबन्धितया निरर्थको दुरनुबन्धित्वेन चानर्थको योगोऽनुपादेयस्स्यादिति तद्विवेचनविषयमुपदेष्टि -
सत्थकं वा वि आरंभं जाणेज्जा य णिरत्थकं। पाडिहत्थिं स जोएंतो तडं घातेति वारणो।।
॥३८-१८॥ सार्थकम् - परम्परयाऽपि मोक्षलक्षणार्थसाधकम्, तद्वापि निरर्थकम् - तदसाधकं च, आरम्भम् - यत्किञ्चिदनुष्ठानम्, जानीयात् - बहुश्रुतोपासनयाऽवगच्छेत्, अन्यथान्धक्रियासङ्काशादनुष्ठानात्प्रत्युत प्रत्यपायसम्भवात्।
एतदेवोदाहरति - यथा स वारणः - मदोन्मत्तो दन्ती, स्वप्रतिबिम्बमेव प्रतिहस्तिनमालोकयामीति मत्वा पश्यन्, तस्मिन् सञ्जातक्रोधः सन् तटम् - कासारादौ विषमशिलाघटितं तलम्, घातयति - दन्तादिप्रहारगोचरीकुरु ते, ततश्च स्वरुधिररञ्जिताशेषजलोऽयं स्वयमेव विनिघातमापद्यत इत्यनुष्ठानेषु सार्थकतादिविवेकः करणीयः। एनमेव व्युत्पादयति -