SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Re-ऋषिभाषितानि -१७७ दंतिंदियस्स वीरस्स किं रणेणऽस्समेण वा ?। जत्थ जत्थेव 'मोदेज्जा तं रणं सो य अस्समो।। ॥३८-१३॥ दान्तेन्द्रियस्य - निगृहीतविषयप्रचारपरिणतकरणस्य, वीरस्य - लोकसञ्जाविदारणविचक्षणस्यारण्येन किम् ? न किञ्चित्, नास्य वनवास उद्वेगोत्पादनायालमिति भावः। आश्रमेणापि किम् ? न किञ्चिदेव, मनोहरस्यापि प्रतिश्रयस्य तस्मिन् रागविकारजननेऽसमर्थत्वात्। नास्य मोक्षानुष्ठानपरायणस्यारण्यादिक्षेत्रप्रयुक्ता काचिद्बाधोपजायत इति हृदयम्। एतदेव स्फुटयति - यत्र यत्रैव अरण्यादौ, स मोदेत - परमात्मप्रवचनाराधनाजनितपरमानन्दपीयूषपाथोधौ निमज्जेत्, तदेव तस्यारण्यम्, आश्रमेऽपि दुष्करवनवासादिसाध्यफलावाप्तेरस्याश्रमोऽप्यरण्यमेवेत्यर्थः। स चाश्रमः, अनुकूलोपाश्रयापेक्षितचित्तसमाधानलक्षणसुखासिकाया अरण्येऽप्यवाप्तत्वेनारण्यमप्यस्याश्रम एवेत्याशयः। एतदेव निदर्शनेनाहकिमु दंतस्स रण्णेणं ? दंतस्स व किमस्समे ?। णातिक्कंतस्स भेसज्जं ण वा सत्थस्सऽभेज्जता।। ॥३८-१४॥ १७८ - आर्षोपनिषद् - किम्वित्यादि प्राग्वत्। यथाऽतिक्रान्तस्य-व्यतिव्रजितरोगस्य, भैषज्यम् - अगदङ्गकारम्, न दातव्यं भवति, प्रयोजनविरहात्, शस्त्रस्य - निशितप्रहरणस्य, तद्विषयभूते वस्तुनि यथाऽभेद्यता - अशक्यभिदात्वमपि न विद्यते, तथा दान्तस्यारण्यादिक्षेत्रविशेषप्रतिबन्धोऽपि न भवतीति भावः। तस्मात् - सुभावभावितप्पाणो सुण्णं रण्णं वणं पि वा। सव्वमेतं हि झाणाय सल्लचित्ते व सल्लिणो।। ॥३८-१५॥ सुभावः - प्रशस्तपरिणामः, प्रवचनोक्तसद्भूतपदार्थो वा, तेन भावितः - चन्दनगन्धवदेकरसीभूतः, आत्मा यस्य सः - सुभावभावितात्मा, तस्य, शून्यम् - अपगतजनसञ्चारम्, अरण्यम् - अटवी, वनति सम्भजति जनानिति वनम्, किञ्चिज्जनसञ्चारविषयं कान्तारम्, तदपि वा, उपलक्षणात् प्रतिश्रयादि वा, सर्वमप्येतद् ध्यानाय हि - धर्मशुक्ललक्षणशुभध्यानायैव, भवति। अत्र दृष्टान्तमाह - यथा कस्यचित् शल्यिनः पादाद्यवच्छेदेनान्तर्गतकण्टकवतः, यत्र तत्रापि तिष्ठतः, शल्यप्रयुक्तवेदनोपयुक्तं चित्तम् - शल्यचित्तम्, आर्त्तध्यानमित्यर्थः, तदेव भवति, तथा प्रवचनपीयूषपरिणतिपरिपूतात्मनां यत्र तत्राप्यवस्थानं प्रशस्तध्यानस्यैव निबन्धनं भवति। इतरस्य तु तदेवेतरफलमिति स्पष्टयति - १. क . सांदतो। ढ.ण - सोदंतो। ग - मोहंते। ध - मोहेज्जो। न . मोदेंज्जे । घ.छ.झ.त . मोदेज्जा। ड - मोदंतो। प - जत्थेवामादेयो। च । मोडेज्जा। ज.ट.ठ - मादेतो। २. घ.झ.त . ऽभेज्जता। च.छ - भेज्जता । शेषेषु - भेज्जती। १. क.ख.ट.ण.प - वित्ते य। ग.घ.च.छ.झ.त - चित्ते व। शेषेषु - चित्ते य ।
SR No.009617
Book TitleRushibhashitani Part 2
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages132
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size836 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy