________________
Re-ऋषिभाषितानि
- १८७ वा शृगालः, न राजा भवति, मृगराजसङ्काशस्थामाद्यभावात्। एवं प्रकृतेऽपि सिद्धान्तपरिणतिवञ्चितस्य परिवारादि सद्गुरुताप्रयोजक न सम्भवतीति ध्येयम्, किञ्चासौ प्रवचनप्रत्यनीक इति साधुताऽप्यस्य दूरापास्ता, यदुक्तम् - जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो । अविणिच्छिओ अ समए, तह तह सिद्धतपडिणीओ - इति (उपदेशमालायाम् ३२३, सन्मती ३-६६)।
ननु प्रियवचनश्रवणेन यद्गुरावस्माकं पक्षपातः स दुर्मोक्ष इति चेत् ? अत्राह -
अत्थादाई जणं जाणे णाणाचित्ताणुभासकं। अत्थादाईण वीसंगो दाए तत्थस्स संतती।।३८-२६।।
नाना - अनेकप्रकाराणि, चित्तानि - जनमनांसि, तान्यनुसृत्य भाषत इति नानाचित्तानुभाषकः, सिद्धान्तमनपेक्ष्य जनरञ्जन - प्रयोजनेन तदभिप्रायानुगुणमेवोचान इत्यर्थः, एतादृशं जनमर्थादायिनम् - स्वार्थलुब्धम्, जानीयात् - तत्त्वतोऽवगच्छेत्। तादृशानामर्थादायिनां विगतः सङ्गो यत्र सः - विसङ्गः सत्सङ्ग इत्यर्थः, स तथ्यस्य - तत्त्वकदम्बकस्य, सन्ततिः - परम्परां दद्यात्, जनरञ्जनपराङ्मुखतया सूत्रप्ररूपणैकतत्परस्य सान्निध्यसेवैव मुक्तिसाधनसज्ञानयोनिरिति हृदयम्।
ननु चान्येषामत्यालाददायिनी सरस्वती कथं गुणव्यभिचारिणी स्यादिति चेत् ? अत्राह -
डंभकप्पं कत्तिसमं णिच्छयम्मि विभावए। णिखिलामोस कारित्तु उवचारम्मि परिच्छतो।।
॥३८-२७॥
१८८
आर्षोपनिषद् - नानाचित्तानुभाषकस्यानन्तरोक्तस्य सर्वमप्येतादृग् वचनं दम्भकल्पम्, मायाप्रायम्, मलिनाशयप्रयुक्तत्वेनानुरूपाभिप्रायविरहात्, अत एव पेशलमपि तद्बचो निश्चये - परमार्थविधौ, कृत्तिसमम् - त्वक्सदृशम् - निस्सारमिति यावत्, इति विभावयेत् - पर्यालोचयेत्।
अत्रैव निदर्शनमाह - यथा निखिलामोषम् - सर्वस्वकुण्टनम्, कृत्वा कश्चिच्चौरोऽज्ञातवृत्त्या तत्स्वामिसकाशे विनयं कुर्यात्, तस्योपचारे - अनुवादितादिलक्षणे विनयकर्मणि, यथा कश्चित् परीक्षकः - प्राज्ञः पर्यालोचको विभावयेत्, यथास्य वचनं दम्भमात्रमसारं चेति। तस्मात् -
सब्भावे दुब्बलं जाणे णाणावण्णाणुभासकं। पुष्फादाणे सुणंदा वा पदकारघरं गता।।३८-२८।।
नानावर्णानुभाषकम् - अनेकप्रकारं विचित्रं परचित्तमनुसृत्य भाषणशीलम्, सद्भावे - तत्त्वतः, दुर्लबम् - स्वपरनिस्तारणविधावसमर्थम्, यद्वा विचित्रवचनरचनाभिरात्मना प्रतिज्ञातमेव साधयितुमनलम्, जानीयात् - परिज्ञागोचरीकुर्यात्।
अत्र दृष्टान्तमाह - यथा सुनन्दा पुष्पादाने पदकारगृहं गता, भावार्थस्तु सम्प्रदायाभावात्, भावेऽपि वा तज्ज्ञानाभावानोच्यते। इत्थं च -
१. क.ग.ट.ठ.ढ.ध.प.फ - पदकारघरं । ख.ज - पदाकारघरं। घ.च.छ.झ.त - पवकारघरं। ण - पदकारघर । न . पदकरेघरं ।