________________
ऋषिभाषितानि
दव्वे खेत्ते य काले य सव्वभावे य सव्वधा । सव्वेसिं लिंगजीवाणं भावणं तु विहावए । ।
१८९
।।३८-२९।। द्रव्ये क्षेत्रे च काले च सर्वभावे च सर्वथा अनन्तरोक्ताशेषप्रकारप्रकरणे, सर्वेषां लिङ्गविशिष्टजीवानाम् लिङ्गजीवानाम्, भावनां तु पर्यालोचनामेव, विभावयेत् - कुर्यात्। यन्न लिङ्गमात्रं शुभगुरुत्वप्रयोजकम् नापि बाह्याचारमात्रम्, अपि त्वागमतत्त्वविभूषितं तदिति । इदृशविभावनाया अनन्तरफलं शुभगुरुसंयोगः, परम्परफलं तु तदाज्ञाराधनेन यद्भव
तदाह
एवं से सिद्धे बुद्धे विरते विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । ।
-
-
एवम् - शुभगुरुवचनासेवनेन सः - संसारसारसमासेवकः, सिद्ध इत्यादि प्राग्वत्। इत्यष्टत्रिंशत्तमे सातिपुत्रीयनामाध्ययन आर्षोपनिषद् ।
।। अथैकोनचत्वारिंशत्तमोऽध्यायः ।।
अनन्तराध्ययन आगमतत्त्वपरिणत्या सद्गुरुपरिज्ञानमुक्तम्, तत्परिणतिपरिज्ञापि पापत्यागादिबाह्याचारतः सम्भवतीत्याह
जे इमं पावकं कम्मं णेव कुज्जा ण कारवे । देवा वितं णमंसंति धितिमं दित्ततेजसं । । ३९ - १ ।।
१. क. ख.ग.ज.ट.ठ.ढ..ध.न.प.फ- सिद्धे ।। ३८ ।। घ-सिद्धे बुद्धे... णो पुणरवि० । च सिद्धे बुद्धे० ।
१९०
आर्षोपनिषद्
यः - महात्मा, इदम् - प्रत्यक्षमीक्ष्यमाणं पृथिवीकायादिसमारम्भलक्षणम्, पापकं कर्म - सावद्यमनुष्ठानम्, नैव कुर्यात् नापि कारयेत् तं धृतिमन्तम् - इह संतिगया दविया णावकंखंति जीविउं इत्यागमोदितसंयमपरिणतिविशेषभूतधृतिविभूषितम् (इहैव जैने प्रवचने ये संयमिनः, त एवोन्मूलितातितुङ्गरागद्वेषद्रुमाः परभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवः इति प्रथमाङ्गे १-१-७/५७ वृत्तौ ), तमेव विशेषयति दीप्तम् - हुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजस्कम्, तेज: तपोलक्षणा कान्तिर्यस्य सः दीप्ततेजाः, तम्, देवा अपि, आस्तां राजप्रभृतिरित्यपिशब्दार्थः, नमस्यन्ति - अयमेवैको धन्यः, धिगस्मान् पापपरायणानित्यादिरूपकुशलचित्तोल्लसितबहुमानेन
वन्दन्ते । यतस्ते जानन्ति यत् -
-
-
-
जे गरे कुव्वती पावं अंधकारं महं करे ।
अणवज्जं पंडिते किच्चा आदिच्चे व पभासती ।।
।।३९-२।।
ये नराः पापं कुर्वन्ति ते महान्तमन्धकारं कुर्वन्ति महादुःखान्धतमसदुःखितमात्मानं विदधन्ति, पण्डितस्त्वनवद्यम् - निरवद्यानुष्ठानम्, कृत्वा समासेव्य, आदित्य इव प्रभासते, अनन्तरवृत्तोदितदीप्ततेजा भवति । यद्वा निरवद्याचारानुभावेन महर्द्धिर्महाद्युतिः सुरः सञ्जायत इत्यर्थः । तस्मात् -
१. अन्धतमसम् = अन्धकारम् ।