________________
Re-ऋषिभाषितानि - सिया पावं सई कुज्जा तं ण कुज्जा पुणो पुणो। णाणि कम्मं च णं कुज्जा साधुकम्मं वियाणिया।।
॥३९-३॥ कदाचिदेतत् स्यात्, यत् स्वयं सकृद्वा पापं कुर्यात्, प्रमादादिवशीभूय, ततस्तत् - पापम्, पुनः पुनर्न कुर्यात्, अनुबन्धदोषभयात्, उक्तं च - से जाणमजाणं वा कट्ट आहम्मिश्र पर्य। संवरे खिप्पमप्पाणं, बीअं तं न समायरे - इति (दशवैकालिके ८-३१)। इत्थमेव प्रायश्चित्तमप्यात्मलाभं भजते, यदुक्तम् - पुणरवि काउं णेच्छदि तं दोसं जइ वि जाइ सयखंड। एवं णिच्छयसहिदो पायच्छित्तं तवो होदि - इति (कार्तिकेयानुप्रेक्षायाम् - ४५४)।
तस्माज्ज्ञानी - अनन्तरोक्तागमसद्भाववेत्ता, इदं साधुकर्म - निरवद्यानुष्ठानम्, इति विज्ञाय - आगमादेव प्रतिपद्य, तत् कर्म कुर्यात् - स्वाचरणगोचरीविदध्यात्। एवं च -
सिया (पुण्णं सई कुज्जा) कुज्जा तं तु पुणो पुणो । "सन्निकायं च णं कुज्जा, साहु भोज्जो वि जायति।।
॥३९-४॥ १. क.ख.ज.ट..ढ.ध.प.फ - सिवा पावं । ग.घ.च.छ.झ.त - सिया पावं। ण - सिवा पाव । न - सिवाणवं । २. फ - णोणि। ३. क.ख.ज.ट.ठ.ढाण.ध.न.प - कामं । ग.घ.च.छ.झ.त - कम्म। ४. क.ढाण.ध - पुणा। ५. क.ख.ट..ण.थ - संनिकायं । ग.घ.त . से निकायं। च - णिकायं । ज - सेंनिकायं । झ - सन्निकार्य । ढ.ध - संनिकाय । द - संति कायं। न फ - संतिकायं। ६. क.ग.घ.च.ज.झ.ठाण.त.थ - च। ख.ट.ढ.ध.न.फ - च। ७. क.ख.प.च.ज.झ.ट.ठाण.त.थ.न.फ - णं। ग.ढ.ध- ण।
१९२
आर्षोपनिषद् - ___कदाचिदेतत् स्यात्, यत् स्वयं सकृद्वा पुण्यम् - निरवद्यानुष्ठानम्, तम् - पुण्यम्, पुनः पुनः कुर्यात्तु - विदध्यादेव, दुष्प्रापावाप्तित्वात्तस्य, तथा च पारमर्षम् - अत्तहिअं खु दुहेण लब्भइ - इति (सूत्रकृताङ्गे २-२-३२)। तथा सम्यक् नितरां चीयत इति सन्निकायः - सदनुष्ठानस्यैवानिशमभ्यस्तत्वेन प्राप्तपुष्टिः पर्यायः, तं च कुर्यात्, येन भूयोऽपि साधु - सदनुष्ठानं जायते - स्वकर्तृकतयोत्पद्यते - स्वयं तत्करोतीत्यर्थः, सानुबन्धस्य भवान्तरेऽप्यनुगामितायोगात्। (अत्र 'पुण्णं सई कुज्जा' - इति कोष्ठकान्तर्गतः पाठो मत्परिकल्पितः, हस्तादर्शेषु न्यूनतादर्शनात्।) तस्मात्सावा कर्म परिहृत्य निरवद्यकर्म समासेवेत्। तदासेवमानस्यापि यत् पूर्वकृतं पापकर्म तत्क्षयाय कर्तव्यशेषमाह
रहस्से खलु भो ! पावं कम्मं समज्जिणित्ता दव्वओ खेत्तओ कालओ भावओ कम्मओ 'अज्झवसउ समं अपलिउंचमाणे जहत्थं आलोएज्जा। संजएणं अरहता इसिणा बुइतं ।।३९-५।।
रहस्ये - एकान्ते, खलु भोः ! पापं कर्म समj, द्रव्यतः, क्षेत्रतः कालतो भावत: कर्मतः - अनुष्ठानतः, अध्यवसतः - पापविषयं चिन्तयतो मनसः, समम् - सार्धमेव, अपरिकुञ्चन् - मायामविदधन् - अनिगृहन्निति यावत्, यथार्थमालोचयेत् - १. ख.ज.ट.ढ़.ण.थ - अज्झवसउ। ग.घ.च.छ.झ.त . अज्झवसायओ। ठ . अज्झवसओ। द.न - अज्झववउ । ध.प - अज्जवउ । २. हस्तादर्शषु - समं । मुद्रितेषु - सम्म। ३. क.घ.छ.झढ़त - अपलिउंच.। ख - अपलियंव. । ग.च.ज.ट.ठ.थ.द.ध.न.प - अपलियंच.| ण - अपलिउंव.।