________________
Re-ऋषिभाषितानि गीतार्थगुरोः पुरतस्तत्प्रकाशनं कुर्यात्।
अयमाशयः, यद्यद्रव्यादिसम्बन्धिसावद्यमासेवितं तत्तद्विशिष्टतया तदालोचनं कर्तव्यम्, अन्यथा तत्तदंशतो निगूहनप्रसक्तेः शुद्धिसामग्र्यासम्भवात्।
नन्वत्र रहस्य इत्यभिधानतः प्रकटमासेवितस्यानालोचनमुदितमिति चेत् ? न, अभिप्रायापरिज्ञानात्, यदि राहस्यिकमप्यालोचनीयं तदेतरस्य का वार्तेति विवक्षितत्वात्। किञ्चैतेन आकंपइत्ता अणुमाणइत्ता जं दिटुं - इत्यत्रत्यदृष्टदोषः प्रतिक्रुष्टः, (यो हि गुरुदृष्टमेव स्खलितमालोचयति, न तु शेषम्, तमधिकृत्यैष दोषोऽभिहित आगमे।) एतदपि शेषदोषापोहोपलक्षणमिति ध्येयम्।
किमुपज्ञमिदमध्ययनमित्यत्राह - संयतेनार्हतर्षिणोदितमिति।
तदेवं पापकर्माऽऽलोच्य पुनस्तत्करणेऽस्वरसं विदध्यादित्यन्योपदेशेन व्यनक्ति -
ण वि अस्थि रसेहिं भद्दएहिं संवासेण य भद्दएण य। जत्थ मिए काणणोसिते उवणामेति वहाए संजए।।
॥३९-६॥ नापि भद्रकैः - सुन्दरै रसैर्मेऽर्थोऽस्ति, नापि भद्रकेन संवासेन, चकारौ समुच्चये, कस्मान्नास्तीत्यत्राह - यत्र काननोषितान् कृतवननिवासान् मृगान् - हरिणान् सञ्जयः - काम्पिल्यपुरराजा य उत्तराध्ययनेषूक्तः सोऽयं सम्भाव्यते, वधायो - पनामयति - प्रतिघातयति ।
१९४ -
- आर्षोपनिषद् - अत्र यत्रेति - भद्रकरसादिप्रयोजनभावे सतीत्यर्थः। नानुपहत्य भूतानि भोगः सम्भवतीति रसमूर्च्छितः सञ्जयो मृगान् घातयति, उक्तं च - कंपिल्ले नयरे राया, उदिन्नबलवाहणे।
नामेणं संजए नाम, मिगव्वं उवणिग्गए।। हयाणीए गयाणीए, रहाणीए तहेव य। पायत्ताणीए महया, सव्वओ परिवारिए।। मिए छिवेत्ता हयगए, कंपिलुज्जाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए - इति
(उत्तराध्ययने १८/१-३)। न चायमेवाध्ययनप्रवक्तेति सम्प्रधार्यम्, बुद्धबोधितत्वेनास्य प्रत्येकबुद्धताऽयोगात्। ___ एवं च यः कोऽपि भोगः, स सर्वोऽपि प्राण्युपमर्दनान्तरीयक इति पापविपाकभीरुणा त्याज्यैव भोगाशेति भावः, ततश्च तृष्णाप्रक्षयेण यत्पर्यवसति, तदाह -
एवं से सिद्धे बुद्धे विरते विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हब्वमागच्छइ त्ति बेमि।।
एवमित्यादि प्राग्वत्। इत्येकोनचत्वारिंशत्तमे संयतीयाध्ययन आर्षोपनिषद्।
॥ अथ चत्वारिंशत्तमोऽध्यायः।। अनन्तराध्ययने भोगतृष्णापरिहारोऽभिहितः, स चेच्छाजयमन्तरेण दुष्कर इत्याह
'इच्छमणिच्छं पुरा करेज्जा' दीवायणेण