________________
Re-ऋषिभाषितानि अरहता इसिणा बुइत।।४०-१॥
भोगतृष्णापरिजिहीर्षुः पुरा - प्रथमम्, इच्छाम् - अप्रशस्तवाञ्छात्मकं चित्तपर्यायम्, अनिच्छाम् - सन्तोषपर्यायेण परिणतं कुर्यात्, इति द्वीपायनेनार्हतर्षिणोदितम्। ननु किमेवमिच्छानिकार उपदिश्यत इत्यत्राह -
इच्छा बहुविधा लोए जाए बद्धो किलिस्सति। तम्हा इच्छमणिच्छाए जिणित्ता सुहमेधती।।४०-२।।
लोके बहुविधा धनाद्याकाङ्क्षाभेदेनानेकप्रकारा, इच्छा भवति, सा च शृङ्खलासङ्काशा, यया बद्धो जीवः क्लिश्यते - तत्तदिच्छाविषयाधिगमप्रयोजनेनाटनधावनादिदुःखभाग् भवति, उक्तं च - आशा नाम मनुष्याणां, काचिदाश्चर्यशृङ्खला। यया बद्धाः प्रधावन्ति, मुक्तस्तिष्ठति पॉवत् - इति। अत एवोक्तमन्यत्र - समारम्भा भग्ना कति न कतिवारांस्तव पशो ! पिपासोस्तुच्छेऽस्मिन् द्रविणमृगतृष्णार्णवजले। तथापि प्रत्याशा विरमति न तेऽद्यापि शतधा न दीर्णं यच्चेतो नियतमशनिग्रावघटितम् - इति (भर्तृहरिसन्दृब्धशतके)।
दृश्यते चाशाग्रहगृहीतानां विडम्बनाः प्रत्यक्षा एव, उक्तं च - सेवाध्वजोऽञ्जलिर्मूर्ध्नि हृदि दैन्यं मुखे स्तुतिः। आशाग्रहगृहीतानां कियतीयं विडम्बना? इति (सेव्यसेवकोपदेशे १२)। तस्मादेकस्या इच्छाया दासोऽशेषजगता दासीक्रियते, विपरीते च विपर्यय इत्याह - आशायाः खलु ये दासास्ते दासाः सर्वदेहिनाम्। आशा दासीकृता येन तस्य दासायते जगत् - इति (कवितामृतकूपे २६)।
१९६
- आर्षोपनिषद् - नन्वाशापूर्ती सुखसम्भवात्साऽप्यस्माकमिष्टैवेति चेत् ? सेयं पामामुत्पाद्य कण्डूयनसुखानुभवनिभा ग्रहिलता, उक्तविडम्बनादुःखादर्शनात्, अन्वाह च - पुरःफलायामाशायां जनः कामं विडम्ब्यते - इति (विदग्धमाधवे ४-१८)।
न च कदाचिद्दुःखसम्भवविलोकनादाशामात्रे हेयतोपपादनमयुक्तमिति वाच्यम्, इच्छाया सद्यो दुःखावहत्वात्, अनुभव एवात्र साक्षीति निमील्य नेत्रे पर्यालोचनीयम्। अत एवाहुः परेऽपिआशाभिभूताः पुरुषा दुःखमश्नुवते क्षणात् - इति (स्कन्दपुराणे २०-१६-१७)। ननु तथाप्यन्ते सुखं भविष्यतीति नैकान्तहेयैवेच्छेति चेत् ? कस्यान्त इति प्राग् वक्तव्यम्, इच्छाया इति चेत् ?, मुग्धोऽसि, तदभावात्, इच्छा हु आगाससमा अणतया - इति पारमर्षात् (उत्तराध्ययने ९-४८), अत एवोक्तमन्यत्रापि - धिगिच्छामन्तवर्जिताम् - इति (पद्मपुराणे ५-३०७)।।
तदिदमखिलं पर्यालोच्य हृदयमुपयाति निष्कर्षं यदिच्छैव दुःखम्, साक्षी चात्र सिद्धान्तः - अविक्खा अणाणंदे - इति (पञ्चसूत्रे ५), अन्वाहुश्च - परस्पृहा महादुःखं निःस्पृहत्वं महासुखम् - इति (ज्ञानसारे १२-८)। अन्यत्रापि - आशा हि परमं दुःखं, नैराश्यं परमं सुखम् - इति (भागवते ११-८-४४)। ___यत एवं तस्मादिच्छामनिच्छया - सन्तोषेण जित्वा सुखमेधते - प्राप्नोति, यदार्षम्-लोभं संतोसओ जिणे - इति (दशवैकालिके ८-३८), अतोऽवश्यमत्र यतितव्यं सुखार्थिभिः, उक्तं च - आशापिशाचिका नित्यं देहस्था दुःखदायिनी। सन्तोषवर