________________
ऋषिभाषितानि
१९७
मन्त्रेण स सुखी येन नाशिता - इति ( धर्मरत्नकरण्डके १३०), अन्यत्रापि - तस्मादाशां जयेत् प्राज्ञो यदीच्छेच्छाश्वतं सुखम् - इति ( बृहन्नारदीयपुराणे ३३-३४) ।
ननु कथं सन्तोषमात्रेणेदृक् सुखं सम्भवतीति चेत् ? दुःखहेतुविहानादिति गृहाण, अत एवार्षे स एव सुखसारतयोदितः, तदाह - सुहाई संतोससाराई - इति । नन्वेतदपि कथमिति चेत् ? अत्रैनं क्रममभिदधन्ति योगविदः - नैरपेक्ष्यादनौत्सुक्यमनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्दस्तदपेक्षां क्षयेन्मुनिः - इति ( योगसारे ५- १४) । अत एवाहुः परेऽपिसन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् । कुतस्तत्कामलोभेन, धावतोऽर्थेहया दिशः ? इति (भागवते ७-११५-१६) । पुनरपीच्छानिर्वर्तितानर्थान् प्रदर्शयति
इच्छाभिभूया न जाणंति मातरं पितरं गुरुं । अधिक्खिवंति साधू य रायाणो देवयाणि य ।।
।।४०-३।।
इच्छामूलं नियच्छंति धणहाणि बंधणाणि य । पियविप्पओगे य बहू जम्माई मरणाणि य । । ४०-४।। प्राग्वत् (ऋषिभाषिते ३६ / १५-१६) । न च तत्र क्रोधाधिकाराद्विसदृशतेति वाच्यम्। क्रोधस्यापीच्छामूलकतया कथञ्चित्तदभिन्नत्वात्। अन्यथा त्वत्रोक्ताधिक्षेपोऽपि न सङ्गतिमङ्गतीति विचारणीयम् ।
अथ केयं वराकीच्छाऽस्मत्पुरत इति चेत् ? न,
आर्षोपनिषद्
सङ्कल्पमात्रत्वेऽपि दुर्विपाकत्वात्, दुर्मोक्षत्वाच्च, एतच्च प्रागभिहितमेव, लेशतस्तु पुनः प्रकारान्तरेणाह -
१९८
इच्छंतेणिच्छते इच्छा अणिच्छंतं पि इच्छति । तम्हा इच्छं अणिच्छाए जिणित्ता सुहमेहती ।।
।।४०-५॥
इच्छता - इच्छां कुर्वता, प्रथमं मनुष्येणेच्छेष्यते प्रियतया प्रतिभासविषयीक्रियते, ततः कथञ्चिद्विज्ञाततत्स्वरूपः संस्तस्याः किञ्चिद्विरक्तोऽसौ ततः प्रतिनिवर्तनाय प्रयतते, तदाऽनिच्छन्तमपि तामिच्छा स्वयमिच्छति न तां शीघ्रमेव मुञ्चति, नैषा सुखेन हातुं शक्यत इत्याशयः । तस्मात् प्रथमत एवेच्छामित्यादि पूर्ववत् ( ऋषिभाषिते ४० - २) | उपदेशसर्वस्वमाह
दव्वओ खेत्तओ कालओ भावओ जहाथामं जहाबलं जधाविरियं अणिगूहंतो आलोएज्जासि त्ति ।।४०- ६ ।।
यथास्थाम
द्रव्यत: क्षेत्रतः कालतो भावतः - द्रव्याद्यनुसारेणेत्यर्थः, तन्निरपेक्षत्वस्य प्रायोऽसम्भवात् प्रतिभग्नतादिप्रयोजकत्वाच्च । शारीरशक्तिमनतिक्रम्य, तदनुसारेणेत्यर्थः, एतेन शक्तितो हीनमाराधनमपि प्रत्युक्तम्, अतिक्रमणस्य कथञ्चिद् द्विविधत्वाच्च। अत एवागम हीनव्युत्सर्गाद्यपि प्रतिक्रुष्टम्, यथा जो खलु तीसइवरिसो सत्तरिवरिसेण पारणाइसमो । विसमे व कूडवाही निव्विन्नाणे हु से जड्डे ।। समभूमे वि अइभरो उज्जाणे किमुअ कूडवाहिस्स ? | अइभरेण भज्जइ तुत्तयघाएहि अ मरालो ।। एमेव
-