________________
Re-ऋषिभाषितानि बलसमग्गो न कुणइ मायाइ सम्ममुस्सगं। मायावडिअकम्मं पावइ उस्सग्गकेसं च।। मायाए उस्सग्गं सेसं च तवं अकुचओ सहुणो। को अन्नो अणुहोही सकम्मसेसं अणिज्जरियं।। निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च। खाणुव्व उद्धदेहो काउस्सगं तु ठाइज्जा - इति (आवश्यकनियुक्तौ भा.२३५-२३६, प्रक्षेपः १, १५४०१५४१)।
तथा यथाबलम्, धृतिशक्तिमनतिक्रम्य, यथावीर्यम्, शक्योत्थानपराक्रमाद्यनतिक्रम्य, किमुक्तं भवति - शारीरादिवीर्यमनिगृहन् - अनिलुवन् आलोचये: - शाश्वतसुखसञ्चरं क्षोदयन् तदवलोकनं कुर्यादिति। उक्तसञ्चरसञ्चरणफलमेवाह
एवं से सिद्धे बुद्धे विरते विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।।
एवमित्यादि प्राग्वत्। इति चत्वारिंशत्तमे द्वीपायननामाध्ययन आर्षोपनिषद्।
॥अथैकचत्वारिंशत्तमोऽध्यायः।। अनन्तराध्ययन इच्छाजयेन यथाबलमाराधनं, सिद्धिलक्षणं तत्फलं चोक्तम्, अत्र तु तद्विपर्यये यो विपर्ययो भवति, तं वर्णयन्नाह
जेसिं आजीवतो अप्पा णराणं 'छलदसणं। तवं ते आमिसं किच्चा जणा संणिचते जणं।।
॥४१-१॥ १. क.ख.ग.ध.च.छ.झ..ण.त - बलदंसणं । ट..थ.द.ध.न.प.फ - छलदसणं ।
२००
- आर्षोपनिषद् - येषामाजीवात् - संयमजीवितावाप्तेरारभ्य, नराणाम्, मुग्धजनानाम्, छलदर्शनम् - मायया ‘तपऋद्धिरेषा ममे'त्यादि प्रदर्शनम्, तदेवात्मा भवति, क्रियातद्वतः कथञ्चिदभेदात्, सदैव छलदर्शनप्रवृत्त एवात्मा भवतीत्याशयः।।
यद्वा येषामात्माऽऽजीवकः, लिङ्गोपजीवी भवति, अत एव ते नराणां छलदर्शनं कारयन्ति- स्वकीयकूटवचनजालादिभिः स्वस्मिन्नसद्भूतं महर्षिस्वरूपं दर्शयन्ति।
ते जनाः - साध्वाभासाः, तपः - स्वाचरितं यत्किञ्चिदप्यनशनाद्यनुष्ठानम्, आमिषं कृत्वा - मत्स्यादिप्रलोभनाय यथा मांसशकलं क्षिप्यते, तत्स्थानीय विधाय, जनम् - मुग्धलोकम्, सन्निचयन्ते - मेलयन्ति। किं चात इत्याह
विकीतं तेसि सुकडं तु तं च णिस्साए जीवियं। कम्मचेट्टा अजाता वा जाणिज्जा ममका सढा।।
॥४१-२॥ तेषां सुकृतम् - आजीवनार्जितं यत्किञ्चिदपि पुण्यम्, विक्रीतं तु - ऐहिकसत्कारादिमात्रकृते हारितमेव, तच्च निश्रया जीवितम् - यदेषां चेष्टितं तन्न शास्त्रोदितमुधाजीवित्वसंवादि, अपि तु दानमानाद्याशंसया लोकावर्जनहेतोर्जनरञ्जनादिकरणेनेति वाणिज्यादिवदेतदपि निश्राजीवितमेवेति भावः। इत्थं च स्फुट एव सुकृतविक्रयः, तथा चाभिहितम् - दानमाननुतिवन्दनापरैौदसे निकृतिरञ्जितैर्जनैः। न त्ववैषि सुकृतस्य चेल्लवः, कोऽपि सोऽपि तव लुण्ट्यते हि तैः - इति