________________
२०२
नल-ऋषिभाषितानि
२०१ (अध्यात्मकल्पद्रुमे १३-२१)।
तदैते कर्मचेष्टाः - कर्मोदयप्रयुक्तक्रियाकारिणः, नैषामनुष्ठानानि क्षयोपशमजनितानि वीर्यस्फोरणकृततपःपराक्रमस्थानीयानि, अपि तु केवलमौदयिकभावहेतुकानीति। यद्वैतेऽजाताः - संयमजीवितं प्रतीत्यालब्धजन्मानः, साध्वाभासमात्रत्वात्तेषाम्। अनभिजाता वा, तादृशचेष्टितस्य कुलीनेऽसम्भवात्, सम्भवे वा कथञ्चित्तत्र परमार्थतः सत्कुलत्वस्यैवाभाव इति भावनीयम्। तथा ते ममकाः - ममकारकपरायणाः, उपध्यादौ सञ्जातगाातिशया इत्यर्थः, तथा शठाः - छलदर्शनादिमायाचारपरा इति जानीयात्।
इत्थं च न केवलमेषां सुकृतविक्रयः, अपि तु नारकयातनाहेतुदुष्कृतक्रयोऽपीत्यर्थादावेदितम्, तथा चोक्तम्वेषेण माद्यसि यतेश्चरणं विनात्मन् ! पूजां च वाञ्छसि जनाद् बहुधोपधिं च। मुग्धप्रतारणभवे नरकेऽसि गन्ता, न्यायं बिभर्षि तदजागलकर्त्तरीयम् - इति (अध्यात्मकल्पद्रुमे १३-५)। इतश्चैषा शठसङ्काशता, मुनिभावाभावे मुनिलिङ्गधारणात्, उक्तं च - गुणांस्तवाश्रित्य नमन्त्यमी जनाः, ददत्युपध्यालयभैक्ष्यशिष्यकान्। विना गुणान् वेषमृषेर्बिभर्षि चेत्, ततष्ठकानां तव भाविनी गतिः - इति (अध्यात्मकल्पद्रुमे १३-८)। गतिमेवैषामभिदधन्नाह
गलुच्छित्ता क(झ)सा चेव पच्छा पावंति वेयणं। १. क.ख.ज.ट.ठ.द.ध.न.प.फ - छित्ता । गढ़.थ - च्छित्ता । मुद्रितेषु - च्छिन्ना । २. ३. ख.ज - असा वेव । ग- असातेव । घ.च.झ.त - असोते वा। ट.ठ - असा चेव । ढ.ध - कसा चेव । घ.प - आसा चेव । न.फ - आसा वेव । ४. क.ख.ग.ज.ट.ठ.ध.प . पच्छा। घ.च.झ.त . मच्छा । ढ.थ - पछा। न -
- आर्षोपनिषद् - अणागतमपस्संता पच्छा सोयंति दुम्मती। मच्छा व झीणपाणीया कंकाणं घासमागता।।
॥४१-३॥ गलः - मत्स्यग्रहणयन्त्रम्, तेनोरिक्षप्ताः - तालुवेधद्वारेण पानीयानिष्काशिताः, झषाः चेव मत्स्या इव, ते साध्वाभासाः पश्चात् - दुष्कृतविपाककाले वेदनाम् - नारकादियातनाम्, प्राप्नुवन्ति - विवशतयाऽनुभवन्ति। इत्थं च ते दुर्मतयः - आत्मविघातानुगुणतया कुत्सितधियः, प्राक्कालेऽनागतम् - अद्याप्यनुदितं पापविपाकम्, अपश्यन्तः - सद्गुरुवचनेनाप्यनाकलयन्तः, तं प्रति गजनिमीलिकामवलम्बमाना वा, पश्चात् - विपाककाले, शोचन्ते - हहा ! किमित्यतिदुःसहदुःखमिदमस्माकमकस्मादुपस्थितमित्यादिना परिदेवन्ते। ___ अत्रैव निदर्शनमाह - यथा क्षीणपानीयाः सूर्यकरसम्पर्कात् प्रहीणस्वाधारभूतजलाः, मत्स्याः - मीनाः, एतदुक्तं भवतिवेलावृद्धिकाले जलेन सागरतट आच्छादिते केचन मत्स्यास्तत्रागच्छन्ति, तेषु य आहाराद्यासक्त्या काले न निवर्तन्ते ते वेलाहानौ सत्यां निम्नादिभागेऽत्यल्पपानीये कृच्छ्रान्निवसन्ति, तदपि जलं सूर्यकरानुभावेनात्यन्तं क्षयमुपयाति, ततश्च दशमीदशां प्राप्ता यावत्ते मीना भवन्ति, तावत् कङ्कानां कर्कटाभिधपक्षिणाम्, ग्रासमागताः - कवलतां प्राप्ताः - तैर्जीवन्त एव खादिता भवन्तीत्यर्थः। इत्थं च -
लेते।
वच्छा ।