Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि
-१७७ दंतिंदियस्स वीरस्स किं रणेणऽस्समेण वा ?। जत्थ जत्थेव 'मोदेज्जा तं रणं सो य अस्समो।।
॥३८-१३॥ दान्तेन्द्रियस्य - निगृहीतविषयप्रचारपरिणतकरणस्य, वीरस्य - लोकसञ्जाविदारणविचक्षणस्यारण्येन किम् ? न किञ्चित्, नास्य वनवास उद्वेगोत्पादनायालमिति भावः। आश्रमेणापि किम् ? न किञ्चिदेव, मनोहरस्यापि प्रतिश्रयस्य तस्मिन् रागविकारजननेऽसमर्थत्वात्। नास्य मोक्षानुष्ठानपरायणस्यारण्यादिक्षेत्रप्रयुक्ता काचिद्बाधोपजायत इति हृदयम्। एतदेव स्फुटयति - यत्र यत्रैव अरण्यादौ, स मोदेत - परमात्मप्रवचनाराधनाजनितपरमानन्दपीयूषपाथोधौ निमज्जेत्, तदेव तस्यारण्यम्, आश्रमेऽपि दुष्करवनवासादिसाध्यफलावाप्तेरस्याश्रमोऽप्यरण्यमेवेत्यर्थः। स चाश्रमः, अनुकूलोपाश्रयापेक्षितचित्तसमाधानलक्षणसुखासिकाया अरण्येऽप्यवाप्तत्वेनारण्यमप्यस्याश्रम एवेत्याशयः। एतदेव निदर्शनेनाहकिमु दंतस्स रण्णेणं ? दंतस्स व किमस्समे ?। णातिक्कंतस्स भेसज्जं ण वा सत्थस्सऽभेज्जता।।
॥३८-१४॥
१७८
- आर्षोपनिषद् - किम्वित्यादि प्राग्वत्। यथाऽतिक्रान्तस्य-व्यतिव्रजितरोगस्य, भैषज्यम् - अगदङ्गकारम्, न दातव्यं भवति, प्रयोजनविरहात्, शस्त्रस्य - निशितप्रहरणस्य, तद्विषयभूते वस्तुनि यथाऽभेद्यता - अशक्यभिदात्वमपि न विद्यते, तथा दान्तस्यारण्यादिक्षेत्रविशेषप्रतिबन्धोऽपि न भवतीति भावः। तस्मात् -
सुभावभावितप्पाणो सुण्णं रण्णं वणं पि वा। सव्वमेतं हि झाणाय सल्लचित्ते व सल्लिणो।।
॥३८-१५॥ सुभावः - प्रशस्तपरिणामः, प्रवचनोक्तसद्भूतपदार्थो वा, तेन भावितः - चन्दनगन्धवदेकरसीभूतः, आत्मा यस्य सः - सुभावभावितात्मा, तस्य, शून्यम् - अपगतजनसञ्चारम्, अरण्यम् - अटवी, वनति सम्भजति जनानिति वनम्, किञ्चिज्जनसञ्चारविषयं कान्तारम्, तदपि वा, उपलक्षणात् प्रतिश्रयादि वा, सर्वमप्येतद् ध्यानाय हि - धर्मशुक्ललक्षणशुभध्यानायैव, भवति।
अत्र दृष्टान्तमाह - यथा कस्यचित् शल्यिनः पादाद्यवच्छेदेनान्तर्गतकण्टकवतः, यत्र तत्रापि तिष्ठतः, शल्यप्रयुक्तवेदनोपयुक्तं चित्तम् - शल्यचित्तम्, आर्त्तध्यानमित्यर्थः, तदेव भवति, तथा प्रवचनपीयूषपरिणतिपरिपूतात्मनां यत्र तत्राप्यवस्थानं प्रशस्तध्यानस्यैव निबन्धनं भवति। इतरस्य तु तदेवेतरफलमिति स्पष्टयति -
१. क . सांदतो। ढ.ण - सोदंतो। ग - मोहंते। ध - मोहेज्जो। न . मोदेंज्जे । घ.छ.झ.त . मोदेज्जा। ड - मोदंतो। प - जत्थेवामादेयो। च । मोडेज्जा। ज.ट.ठ - मादेतो। २. घ.झ.त . ऽभेज्जता। च.छ - भेज्जता । शेषेषु - भेज्जती।
१. क.ख.ट.ण.प - वित्ते य। ग.घ.च.छ.झ.त - चित्ते व। शेषेषु - चित्ते य ।

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132