Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 96
________________ Re-ऋषिभाषितानि - -१७५ भाषिता - समुदिता, वाणी - सरस्वती, सामान्ये निरूपणे कृते सति गीतम् - अविगीतम् - अनिन्द्यम् - प्रशस्तमिति यावत्, निर्माणम् - स्वनिर्मितं गुणप्रतिपत्तिलक्षणं फलं यस्याः सा - गीतनिर्माणा भवति। अयमाशयः, यदा प्रथममेवारब्धस्थूल - धर्माचारा श्रोतारः, तदा तेऽत्यन्तमुग्धतया कञ्चन देवताविशेषमजानाना न विशेषप्रवृत्तेरद्यापि योग्याः, किन्तु सामान्यरूपाया एवेत्येषु तादृश्येव देशना युज्यते, यथा-अविशेषेण सर्वेषामधिमुक्तिवशेन वा। गृहिणां माननीया यत्, सर्वे देवा महात्मनाम्।। सर्वान् देवान् नमस्यन्ति, नैकं देवं समाश्रिताः। जितेन्द्रिया जितक्रोधा, दुर्गाण्यतितरन्ति ते - इति (योगबिन्दौ ११७-११८)। अन्यथा तु प्रशस्तफलप्रसूत्यसम्भवः, अनिष्टफलोत्पत्तेरित्याह - विशेषे - विशेषनिरुपणे कृते सति, मर्मवेधिनी - अरून्तुदा देशना भवति, अयमभिप्रायः - अनन्तरोक्तानामादिकर्मणां जीवानां यदिजिनेश्वर एव निर्दोषो देवः, सर्वेऽपीतरे रागादिदूषिता मिथ्यात्विनो हरिहरहिरण्यगर्भादयः - इति कथ्यते, तदैषां मर्मवेध एव सञ्जायते, अद्यापि तादृशदेशनायोग्यतापरिपाकविरहात्। ननु कथमेकैव जिनवाणी स्वरूपसुन्दरापि विचित्रफला सम्पद्यत इति चेत् ? यथा वर्षाजलमेकमपि शुक्ति - सर्प-गवादौ विचित्रपरिणामं प्रतिपद्यते तथेति गृहाण। अयमत्र तात्पर्यम्-यथा कश्चिदौषधमपि वायुप्रकोपजनितव्याधौ हितकरमपि कफजनितरोगे तदेवाहितं भवति, एवमत्रापि जिनवचनस्य स्वरूपसुन्दरत्वेऽपि १७६ - आर्षोपनिषद् - बालाद्यपेक्षयोदितस्यैव सत्परिणतिर्द्रष्टव्या, उक्तं च - हितमपि वायोरौषधमहितं तच्छेलेष्मणो यथात्यन्तम्। सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति - इति (षोडशके १-१५)। तदत्र प्रसङ्गतस्तत्तत्पर्षद्योग्यं नानाविधमुपदेशमाह - सव्वसत्तदयोंवेतो णारंभो ण परिग्गहो। सत्तं तवं दयं चेव भासंति जिणसत्तमा।।३८-१२।। आरम्भः - पृथिव्याधुपमर्दः, परिग्रहः - धनादिमूर्छा, तदेतदुभयमपि सर्वसत्त्वेषु या दया तयोपेतः सहितः न, नकारद्वयं निषेधावधारणार्थम्, नैव सम्भवतीति, जलानलवदनयोर्विरोधात्। तस्मात्, जिनाः - अवधिजिनादयः, तेषु सत्तमाः - श्रेष्ठाः - जिनसत्तमाः, केवलिन इत्यर्थः। ते सत्त्वम् - आरम्भादिवर्जनात्मकसंयमविधावपूर्वापूर्ववीर्योल्लासम्, तपः - अनशनाद्यनुष्ठानम्, एतदपि सर्वजीवकरुणाहेतुः, पाणिदयातवहेउं - इत्युक्तेः (उत्तराध्ययने २६-३४), दया - शिष्टमशेष समित्याधनुष्ठानम्, हेतौ फलोपचारात्, तामेव भाषन्ते - कर्तव्यतया प्ररूपयन्ति। वस्तुतस्त्वेकस्यापि जीवस्य जिनशासनप्रवेशे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनमिति - जिनधर्मस्य यत्किञ्चिदप्यङ्गं सर्वसत्त्वदयोपेतमेवेति भावनीयम्। उपदेशान्तरमाह १. ख - योवेता। ज.ठ. - योवेतो। ट . यावेतो। शेषेषु - योवेसो।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132