Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 94
________________ ऋषिभाषितानि शब्दादयः, सुप्ता इव सुप्ता, कर्मबन्धं प्रति प्रतिहतशक्तयो भवन्ति, अन्यथा तु त एव विषया दुःखस्य- नारकादियातनायाः कारणानि भवन्ति । यद्वा दुःखस्य कारणानीति शब्दादीनां स्वरूपविशेषणम्, प्राय एषां तद्धेतुभावात् । तस्मात् तस्यैव दुःखस्यैव, तुः विशेषणाय, स च सर्वस्यापि दुःखघातयैव प्रवृत्ततयाऽत्रैवाभियोगः श्रेयानिति विशेषयति, विनाशाय एकान्तिकात्यन्तिकक्षयाय, प्राज्ञः - दुःखक्षयसदुपायविचक्षणः, सन्ततम् - अनिशम्, महत्फलस्य प्रायोऽल्पायाससाध्यत्वासम्भवात्, वर्तेत – प्रयतेत । ननु तथापि दुष्करमिदमिति चेत् ? अत्राह - १७१ चरक वाहिक्खया व दुक्खं वा सुहं वा णाणदेसियं । मोहक्खयाय एमेव' दुहं वा जइ वा सुहं ।। ३८-७।। यथा व्याधिक्षयाय - रोगनाशाय, ज्ञानदेशितम् सुश्रुतादिश्रुतनिर्दिष्टम्, दुःखम् - शिरावेधक्षारपातादिकष्टम्, सुखम् - तथाविधज्वरादौ स्वादु शर्करोन्मिश्रं भोज्यम्, वाशब्दावुभयत्र साम्यप्रदर्शकौ, एतदुभयमपि रोगनिर्विण्णानां समतयैवाभिमतं भवतीति भावः । - एवमेव मोहक्षयाय दुःखं वा यदि वा सुखम्, प्रतिकूलानुकूलपरीषहा इत्यर्थः, उभयत्रापि समभाव एव भवति । तस्मान्न १. क. ढ ण खयादुःखं । ख.ज.ट. ठ. ध.न.प.फखयाबदुखं। गक्खया व दुक्खं घ.च.झ. तक्खयाय दुक्खं । २. क. घ.च. छ. झ.ढ.णत ख. ग. ज. ट. ठ. थ. ध.न.प. फवा दु | व दु । १७२ आर्षोपनिषद् किञ्चिद् दुष्करत्वमिन्द्रियनिग्रहे मोहसंहारबद्धकक्षाणामिति हृदयम् । किञ्च - दुक्खंण सुहं वा वि जहा हेतु तिगिच्छति । तिगिच्छिए सुजुत्तस्स दुक्खं वा जति वा सुहं ।। ।।३८-८।। यथा कुशले वैद्ये चिकित्सति सति न दुःखं निर्वेदस्य हेतुर्भवति, न वाऽपि सुखं हेतुर्भवति । रोगक्षयैकप्रयोजनतया प्रवृत्तत्वेन तस्य दुःखाद्युपयोगविरहेण दुःखादेररतिजनकत्वासम्भवात् । इत्थं च यथा चिकित्सिते सुयुक्तस्य सम्यगनुस्यूतस्य, दुःखं वा यदि वा सुखं सममेव भवति, तथा - मोहक्खए उ जुत्तस्स दुक्खं वा जड़ वा सुहं । मोहक्खए जहा हेऊ न दुक्खं न वि वा सुहं ।। ।।३८-९।। मोहक्षये तु - मोहसंहार एव, युक्तस्य सर्वात्मना सम्प्रवृत्तस्य, दुःखमित्यादि प्रागनुसारेण सुगमम् । उक्तं च - भूमितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा, नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति इति (मालिनीवृत्तम्) | एवं मोहक्षयायाभ्युद्यतानां सुखादौ समचित्तवृत्तिभावेऽपि पुरुषविशेषमधिकृत्य देशनादिविशेष आवश्यकः, इत्थमेव सम्प्रतिपत्त्यादिसम्भवादित्याह १. ख.च.ज.ट. ठ थ च्छए। शेषेपुछिए।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132