________________
ऋषिभाषितानि
शब्दादयः, सुप्ता इव सुप्ता, कर्मबन्धं प्रति प्रतिहतशक्तयो भवन्ति, अन्यथा तु त एव विषया दुःखस्य- नारकादियातनायाः कारणानि भवन्ति । यद्वा दुःखस्य कारणानीति शब्दादीनां स्वरूपविशेषणम्, प्राय एषां तद्धेतुभावात् । तस्मात् तस्यैव दुःखस्यैव, तुः विशेषणाय, स च सर्वस्यापि दुःखघातयैव प्रवृत्ततयाऽत्रैवाभियोगः श्रेयानिति विशेषयति, विनाशाय एकान्तिकात्यन्तिकक्षयाय, प्राज्ञः - दुःखक्षयसदुपायविचक्षणः, सन्ततम् - अनिशम्, महत्फलस्य प्रायोऽल्पायाससाध्यत्वासम्भवात्, वर्तेत – प्रयतेत । ननु तथापि दुष्करमिदमिति चेत् ? अत्राह -
१७१
चरक
वाहिक्खया व दुक्खं वा सुहं वा णाणदेसियं । मोहक्खयाय एमेव' दुहं वा जइ वा सुहं ।। ३८-७।। यथा व्याधिक्षयाय - रोगनाशाय, ज्ञानदेशितम् सुश्रुतादिश्रुतनिर्दिष्टम्, दुःखम् - शिरावेधक्षारपातादिकष्टम्, सुखम् - तथाविधज्वरादौ स्वादु शर्करोन्मिश्रं भोज्यम्, वाशब्दावुभयत्र साम्यप्रदर्शकौ, एतदुभयमपि रोगनिर्विण्णानां समतयैवाभिमतं भवतीति भावः ।
-
एवमेव मोहक्षयाय दुःखं वा यदि वा सुखम्, प्रतिकूलानुकूलपरीषहा इत्यर्थः, उभयत्रापि समभाव एव भवति । तस्मान्न
१. क. ढ ण खयादुःखं । ख.ज.ट. ठ. ध.न.प.फखयाबदुखं। गक्खया व दुक्खं घ.च.झ. तक्खयाय दुक्खं । २. क. घ.च. छ. झ.ढ.णत ख. ग. ज. ट. ठ. थ. ध.न.प. फवा दु |
व दु ।
१७२
आर्षोपनिषद्
किञ्चिद् दुष्करत्वमिन्द्रियनिग्रहे मोहसंहारबद्धकक्षाणामिति हृदयम् । किञ्च
-
दुक्खंण सुहं वा वि जहा हेतु तिगिच्छति । तिगिच्छिए सुजुत्तस्स दुक्खं वा जति वा सुहं ।। ।।३८-८।। यथा कुशले वैद्ये चिकित्सति सति न दुःखं निर्वेदस्य हेतुर्भवति, न वाऽपि सुखं हेतुर्भवति । रोगक्षयैकप्रयोजनतया प्रवृत्तत्वेन तस्य दुःखाद्युपयोगविरहेण दुःखादेररतिजनकत्वासम्भवात् । इत्थं च यथा चिकित्सिते सुयुक्तस्य सम्यगनुस्यूतस्य, दुःखं वा यदि वा सुखं सममेव भवति, तथा -
मोहक्खए उ जुत्तस्स दुक्खं वा जड़ वा सुहं । मोहक्खए जहा हेऊ न दुक्खं न वि वा सुहं ।।
।।३८-९।।
मोहक्षये तु - मोहसंहार एव, युक्तस्य सर्वात्मना सम्प्रवृत्तस्य, दुःखमित्यादि प्रागनुसारेण सुगमम् । उक्तं च - भूमितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा, नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति इति (मालिनीवृत्तम्) |
एवं मोहक्षयायाभ्युद्यतानां सुखादौ समचित्तवृत्तिभावेऽपि पुरुषविशेषमधिकृत्य देशनादिविशेष आवश्यकः, इत्थमेव सम्प्रतिपत्त्यादिसम्भवादित्याह
१. ख.च.ज.ट. ठ थ च्छए। शेषेपुछिए।