Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 93
________________ ऋषिभाषितानि १६९ छड्डए - इति (दशवैकालिके ५-२-१) । एवं शयनादावपि ज्ञेयम्, न चैतन्महार्घं भिक्षूणां कल्पतेऽपि । प्रतिश्रयस्तु सुन्दर प्रवचने प्रतिक्रुष्टः, यदुक्तम् - मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवाडं पंडुरुल्लोयं, मणसा वि न पत्थए । । इंदियाणि उ भिक्खुरस, तारिसम्मि उवस्सए । दुक्कराई निवारेउ, कामरागविवडणे ।। सुसाणे सुन्नगारे वा, रुक्खमूले व एगगो । पइरिक्के परकडे वा, वासं तत्थऽभिरोयए इति (उत्तराध्ययने ३५ / ४-६ ) | अतो यथाभिहिता व्याख्यैवाऽत्रानुसन्धेयाः, सत्त्वानुग्रहार्थमुपदेशे प्रवृत्तानां कारुणिकानां तदहितहेतुवचनोच्चारणासम्भवात् । किञ्च वैषयिकसुखाशंसैवासद्ध्यानमिति क्व तन्मार्गणपराणां शुभध्यानगन्धोऽपीत्यलं प्रपञ्चेनेत्याशयेनाह - एवं अणेगवण्णागं तं परिच्चज्ज पंडिते । ursorत्य लुब्भई पणे एयं बुद्धाण सासणं ।। ।।३८-४।। - एवम् - उक्तरीत्या, अनेकवर्णकम् प्रभूतप्रकारम् कुयुक्तिपटलं लोके विद्यते, तत् पण्डितः - परमार्थवेत्ता, परित्यज्य, स प्राज्ञः - आत्महितोपायज्ञाता जिनप्रवचनादन्यत्र न - नैव लुभ्यति, इयमेवास्य प्राज्ञता यदन्यत्रास्यास्पृहता, परमात्मप्रवचनपीयूषपानसतृष्णता चेति । तदेतत् - अनन्तरोक्तम्, बुद्धानाम् - केवलज्ञानात्मकपरमबोधसम्पन्नानाम्, शासनम् - निर्देशः । १. क. ख. ज. ट. ठ.ढ... न.फरूवं । ग.घ.च. छ. झ.त.ध.प एवं। आर्षोपनिषद् यद्वा एवम् मनोज्ञं भोजनमित्यादौ सद्व्याख्यादरेण, अनेकवर्णकम् - वर्णवैचित्र्योपेततया सुन्दरम् रसाद्युपलक्षणमेतत्, तत् परित्यज्य पण्डितः प्राज्ञश्चात्महितादन्यत्र न लुभ्यतीत्यर्थः । तदेतत् शक्यपरित्यागविषयाऽनुशास्तिः, इतरगोचरां त्वाह - वसु ससु सोयपत्तेसु बुद्धिमं । से हिं वायपदोसं वा सम्मं वज्जेज्ज पंडिए । । ३८- ५ ।। नानावर्णेषु – प्रभूतप्रकारेषु, शब्देषु ध्वनिषु, श्रोत्रप्राप्तेषु - श्रवणेन्द्रियविषयीभूतेषु, बुद्धिमान् - जे गुणे से आवट्टे, जे आवट्टे गुणे - ( आचारागे १-१-५/४०) इतिप्रवचनपरिकर्मितमतिः, गृद्धिम् - मूर्च्छातिशयम्, वाक्प्रद्वेषं वा - अहोऽत्यसुन्दरा इत्यादिवचसा व्यक्तीभवन्तीं मनसोऽप्रीतिम्, पण्डितः - रागो य दोसो वि य कम्मबीयं - इतितत्त्वपरिणतिमान्, सम्यक् अनुबन्धशुद्ध्या, वर्जयेत् - परित्यजेत् । एवं रूवेस गंधेसु रसेसु फासेसु 'अप्पप्पणाऽभिलावेणं । एवम् - शब्दालापकानुसारेण, रूपादीष्वात्मीयात्मीयाभिलापेन भावना कार्येत्यतिदेशः । रागादिनिग्रहस्योपादेयतामेव समर्थयति १७० पंच जागरओ सुत्ता दुक्खरस कारणा । तस्सेव तु विणासाय ( पण्णे वट्टिज्ज संतयं ) । । जाग्रतः ।।३८-६।। रागादिनिग्रहेऽप्रमत्तस्य, पञ्चेन्द्रियविषयाः १. क. घ.ज.झ. ठ. ढ ण. त.न.फ अप्पप्पणा । ख.ग.ट..ध.प अप्पणा । २. मुद्रितेषु अप्पदुक्खस्स । ३. हस्तादर्शेषु तुर्यपादो नोपलभ्यते ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132