Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 92
________________ Re-ऋषिभाषितानि - पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।। एवम् - ईर्यासमित्यादेर्यथार्थाराधनेन, सः - आराधकः, सिद्ध इत्यादि प्राग्वत्, इति सप्तत्रिंशत्तमे श्रीगिरिनामाध्ययन आर्षोपनिषद्। ॥ अथाष्टत्रिंशत्तममध्ययनम्।। अनन्तराध्ययन ईर्यासमित्याधुपदेशोऽभिहितः, स च सुखाभिलाषिणां दुरनुष्ठेय इति दुःखानुबन्धिसुखनिर्वेदोत्पादनायाह जं सुहेण सुहं लद्धं अच्चंतसुखमेव तं। जं सुखेण दुहं लद्धं मा मे तेण समागमो।।३८-१।। यत्सुखेन - पुण्यानुबन्धिपुण्योदयप्राप्तेन सौख्येन, सुखं लब्धम्, अत्यन्तसुखमेव तत्, तदेव पारमार्थिकं सुखम्, परिणामरम्यस्यैव तत्त्वतो रम्यत्वात्। एवकारव्यवच्छेद्यमाह - यत्सुखेन - पापानुबन्धिपुण्यविपाकप्राप्तेन सौख्येन, यत्सौख्यानुभवेनेति भावः, दुःखं लब्धम्, मा मे तेन - दुःखावहसुखेन सह समागमो भूत्, उक्तं च - सतोऽसत्ता स्थिता मूर्ध्नि, रम्याणां मूर्ध्यरम्यता। सुखानां मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् ? - इति (महोपनिषदि ६-२४), हेयमेव दुःखावह सौख्यमित्यभिप्रायः। केनैवमुक्तमित्याह- सातिपुत्तेण बुद्धेण अरहता इसिणा बुइतं - सातिपुत्रेण बुद्धेनार्हतर्षिणोदितम्। ननु यदि सुखस्य हेयत्वं प्रतिज्ञायते, तदैतद्विरुध्यते - १६८ - आर्षोपनिषद् - मणुण्णं भोयणं भोच्चा मणुण्णं सयणासणं। मणुण्णंसि अगारंसि झाति भिक्खू समाहिए।। ॥३८-२॥ मनोज्ञम् - सुन्दरम्, भोजनं भुक्त्वा , मनोज्ञं शयनासनमुपभोगविषयीकृत्य, मनोज्ञेऽगारे - विहारालये, समाहितः - सुखसाधनसम्पादितसमाधानशाली, भिक्षुः, ध्यायति, सुखेन ध्याननिर्मग्नो भवतीत्याशयः। एतदेव व्यतेरेकेणाभिधत्ते - अमणुण्णं भोयणं भोच्चा अमणुण्णं सयणासणं। अमणुण्णंसि गेहंसि दुक्खं भिक्खू झियायति।। ॥३८-३॥ अमनोज्ञमित्यादि सुगमम्। नवरमिष्टवियोगानिष्टयोगकदर्थितोऽसावार्तध्यानमुपयाति, अतः सुखेन सद्ध्यानं कर्तुं न शक्नोतीत्याशयः। ___ यदि सुखसमागम नेष्यते, तदा सद्ध्यानमपि कथं भविष्यतीति चेत् ? न, अभिप्रायापरिज्ञानात्, मनोज्ञमिति यज्ज्ञानिनां मनोभिः परिणामसुन्दरतया ज्ञायते तत्। ततो नात्र स्निग्धत्वादिविशिष्टमेव भोजनादि विवक्षितम्, अपि तु संयमाविरोधि, तत एव ध्यानस्य सुध्येयतासम्भवात्। किञ्च संयमिनां सुन्दरमप्येतदेव यत् संयमोपष्टम्भकम्, उक्तं च-तित्तगं व कडुअं व कसायं अंबिलं व महुरं लवणं वा। एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज्ज संजए - इति(दशवैकालिके ५-१-९७)। यदि तु मनोज्ञाभ्यवहरणमेव प्रतिज्ञायते, तदेदं विरुध्यते - दुगंध वा सुगंधं वा, सव्वं भुंजे न

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132