________________
Re-ऋषिभाषितानि - पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।।
एवम् - ईर्यासमित्यादेर्यथार्थाराधनेन, सः - आराधकः, सिद्ध इत्यादि प्राग्वत्, इति सप्तत्रिंशत्तमे श्रीगिरिनामाध्ययन आर्षोपनिषद्।
॥ अथाष्टत्रिंशत्तममध्ययनम्।। अनन्तराध्ययन ईर्यासमित्याधुपदेशोऽभिहितः, स च सुखाभिलाषिणां दुरनुष्ठेय इति दुःखानुबन्धिसुखनिर्वेदोत्पादनायाह
जं सुहेण सुहं लद्धं अच्चंतसुखमेव तं। जं सुखेण दुहं लद्धं मा मे तेण समागमो।।३८-१।।
यत्सुखेन - पुण्यानुबन्धिपुण्योदयप्राप्तेन सौख्येन, सुखं लब्धम्, अत्यन्तसुखमेव तत्, तदेव पारमार्थिकं सुखम्, परिणामरम्यस्यैव तत्त्वतो रम्यत्वात्। एवकारव्यवच्छेद्यमाह - यत्सुखेन - पापानुबन्धिपुण्यविपाकप्राप्तेन सौख्येन, यत्सौख्यानुभवेनेति भावः, दुःखं लब्धम्, मा मे तेन - दुःखावहसुखेन सह समागमो भूत्, उक्तं च - सतोऽसत्ता स्थिता मूर्ध्नि, रम्याणां मूर्ध्यरम्यता। सुखानां मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् ? - इति (महोपनिषदि ६-२४), हेयमेव दुःखावह सौख्यमित्यभिप्रायः।
केनैवमुक्तमित्याह- सातिपुत्तेण बुद्धेण अरहता इसिणा बुइतं - सातिपुत्रेण बुद्धेनार्हतर्षिणोदितम्। ननु यदि सुखस्य हेयत्वं प्रतिज्ञायते, तदैतद्विरुध्यते -
१६८
- आर्षोपनिषद् - मणुण्णं भोयणं भोच्चा मणुण्णं सयणासणं। मणुण्णंसि अगारंसि झाति भिक्खू समाहिए।।
॥३८-२॥ मनोज्ञम् - सुन्दरम्, भोजनं भुक्त्वा , मनोज्ञं शयनासनमुपभोगविषयीकृत्य, मनोज्ञेऽगारे - विहारालये, समाहितः - सुखसाधनसम्पादितसमाधानशाली, भिक्षुः, ध्यायति, सुखेन ध्याननिर्मग्नो भवतीत्याशयः। एतदेव व्यतेरेकेणाभिधत्ते -
अमणुण्णं भोयणं भोच्चा अमणुण्णं सयणासणं। अमणुण्णंसि गेहंसि दुक्खं भिक्खू झियायति।।
॥३८-३॥ अमनोज्ञमित्यादि सुगमम्। नवरमिष्टवियोगानिष्टयोगकदर्थितोऽसावार्तध्यानमुपयाति, अतः सुखेन सद्ध्यानं कर्तुं न शक्नोतीत्याशयः। ___ यदि सुखसमागम नेष्यते, तदा सद्ध्यानमपि कथं भविष्यतीति चेत् ? न, अभिप्रायापरिज्ञानात्, मनोज्ञमिति यज्ज्ञानिनां मनोभिः परिणामसुन्दरतया ज्ञायते तत्। ततो नात्र स्निग्धत्वादिविशिष्टमेव भोजनादि विवक्षितम्, अपि तु संयमाविरोधि, तत एव ध्यानस्य सुध्येयतासम्भवात्। किञ्च संयमिनां सुन्दरमप्येतदेव यत् संयमोपष्टम्भकम्, उक्तं च-तित्तगं व कडुअं व कसायं अंबिलं व महुरं लवणं वा। एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज्ज संजए - इति(दशवैकालिके ५-१-९७)। यदि तु मनोज्ञाभ्यवहरणमेव प्रतिज्ञायते, तदेदं विरुध्यते - दुगंध वा सुगंधं वा, सव्वं भुंजे न