________________
ऋषिभाषितानि
पडुप्पण्णमिणं सोच्चा सूरसहगतो गच्छे, जत्थेव सूरिये अत्थमेज्जा खेत्तंसि वा णिण्णंसि वा तत्थेव णं पादुप्पभायाए रयणीये जाव तेयसा जलते, एवं खु मे कप्पति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा पुरतो जुगमेत्तं पेहमाणे अहारीयमेव रीतित्तए । । ३७ - ३ ।।
इदम् - अनन्तरोक्तम्, प्रत्युत्पन्नम् - युक्तिसहत्वेन वर्तमानं जैनमतम्, श्रुत्वा - निशम्य तदाराधको भूयात् । तदाराधना कृत्स्ना सर्वविरतावेवेति तदाचारविशेषमभिदधन्नाह - सूरसहगतो गच्छेत्, सूर्येऽनस्तगत एवाहारविहारादिक्रियाः कुर्यात्, अन्यथा प्राणिव्यापादनादिदोषप्रसक्तेः । एतदेव व्यतिरेकेणाह - यत्रैव सूर्योऽस्तमियात्, क्षेत्रे वा निम्ने वा कथञ्चिदधोव्यवस्थिते भूभागे, वाशब्देनान्यस्यापि तथाविधप्रासुकस्थानस्य ग्रहणं द्रष्टव्यम् । तत्रैव वासं कल्पयेत्, कियत्कालं यावदित्याह - प्रादुः - प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्याम्, अत्र यावत्करणादिदं द्रष्टव्यम् फुलुप्पलकमलकोमलुम्मिलितंमि अह पंडुरे पहाए रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिंमि दिनयरे तेयसा जलते - इति ।
अत्र व्याख्या - फुल्लं-विकसितं च तदुत्पलं - पद्मं च - फुल्लोत्पलं तच्च कमलश्च - हरिणविशेषः, तयोः कोमलम्
=
१६५.
१. क. ख. ग. ज. ढ.. ध.न.प.फ पडणं । घ.च. छ. झ.त पडणं । ट ठ पेडिगं । ण पडण ।
आर्षोपनिषद् अकठोरम्, उन्मीलितम् - दलानां नयनयोश्वोन्मीलनं यस्मिंस्तत्तथा, अथ रजनीप्रभातानन्तरं पाण्डुरे - शुक्ले, प्रभाते - उषसि, रक्ताशोकस्य - तरुविशेषस्य, प्रकाशः - प्रभा, स च किंशुकं च - पलाशकुसुमम्, शुकमुखं च प्रतीतम्, गुञ्जा - रक्तकृष्णः फलविशेषः, तदर्द्धं चेति द्वन्द्वः, एषां यो रागो रक्तत्वम्, तेन 'सदृशः - समो यः स तथा, तथा कमलाकराः - पद्मोत्पत्तिस्थानभूता हृदादयस्तेषु यानि षण्डानि - नलिनवनानि तेषां बोधक:विकाशको यः स तथा, तत्र, उत्थिते - उद्गते, सूरे- रवौ, किम्भूते ? सहस्रं रश्मीनाम् किरणानां यस्येति सहस्ररश्मिः, तस्मिन्, दिनं करोतीति दिनकरः, तत्र, तेजसा दीप्त्या, ज्वलन्निव ज्वलन्। सूर्योदयं यावत्तु तत्रैव तिष्ठेदित्याशयः । ततः किं कुर्यादित्याह एवं खलु मे सर्वविरतस्य मम, आत्मव्यपदेशेनैतदुपलक्षणमशेषसर्वविरतानाम्, उत्सर्गतो रात्रिविहारादेर्निषिद्धत्वात्, प्राचीनं वा - पूर्वदिग्भवं देशम्, ग्रामादि वा, एवं प्रतीचीनं वा - पश्चिमदिग्भवम्, दाक्षिणं वा उदीचीनं वा - उत्तरदिग्भवम्, पुरतः - अग्रतः, युगमात्रम् - शरीरप्रमाणम्, शकटोर्द्धिसंस्थितमिति यावत्, भूभागं प्रेक्षमाणः प्राणिपीडापरिहारार्थं
-
कर्तव्यतया युज्यते ।
निभालयन्, यथेर्यामेव एतुं कल्पते यथेर्यासमितिः प्रवचने प्रतिपादिता तथैवानुपालयतो ममावश्यककार्याय गमनमर्हतीत्याशयः । इत्थं च प्रवचनपक्षपातितया यत्फलमाप्नोति तदाह -
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो
१६६
-
-
-