________________
१६४
Re-ऋषिभाषितानि भेदाः, सप्त द्वीपा च मेदिनी।। गर्भोदकं समुद्राश्च जरायुश्चापि पर्वताः। तस्मिन्नण्डे त्वमी लोकाः, सप्त सप्त प्रतिष्ठिताः।। तत्रेहाद्यः स भगवान्, उषित्वा परिवत्सरम्। स्वयमेवात्मना ध्यात्वा तदण्डमकरोद् द्विधा। ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे - इति (लोकतत्त्वनिर्णये २५-२७)। एतदेवाह - अत्र - उक्ताण्डे, लोकः - द्यावापृथिव्यादिलक्षणं भुवनम्, सम्भूतः - उत्पन्नः। अत्र लोके, सासेसे - इति सासएसे - सासदेसे - शस्यदेशः। धान्यादिसम्पन्नो भूमिभागोऽपि सम्भूत इत्याशयः। एवं जीवनानुकूलेऽस्मिन् लोके सर्वा प्रकृतयोऽभूवन्, एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरप्यभूत्।
तदेषां सर्वेषामप्यादिकारणं जलमेवेति मत्वा तदधिष्ठातारं वरुणदेवं प्रतितर्पयन्तस्ते यत्प्रोचुस्तदाह- इदम् - अनुष्ठानम्, नः - अस्माकम्, वरुणविधानात्, - वरुणदेवतोद्देशेन शास्त्रनिर्दिष्टात् पवित्रविधानात्, प्रवृत्तमस्तीति गम्यते। एतद्विधातृप्रतिज्ञामेवाह - उभयतः कालम् - प्रातःकाले सायंकाले च, एतदेवाह- उभयतः सन्ध्यम्, क्षीरं नवनीतं मधु समितः - होमाईकाष्ठानि, तासां समाहारः सम्यगाहरणम् - समित्समाहारः, तम्, क्षारम् - अग्निहोत्र उपयुज्यमानं भस्म, शङ्खं च पिण्डयित्वाग्निहोत्रकुण्डम् - यज्ञकुण्डम्, प्रतिजागरत्- पर्युपासन्, विहरिष्यामीति।
अत्र प्रतिविधीयते - जगतो ह्युत्पत्तिः सतः स्यादसतो वा, नाद्यः, अनुत्पन्ने जगति कस्यचिदपि सतोऽसम्भवात्, नाप्यसतः,
आर्षोपनिषद् - खरविषाणादेरपि भावोद्भवप्रसङ्गात्। किञ्च जगदपि सज्जायतेऽसद्वा ? न प्रथमः, कालत्रयेऽपि सत उत्त्पत्त्ययोगात्, अनवस्थानप्रसङ्गाच्च, नाप्यसतः, खरशृङ्गस्योद्भवादर्शनात्।
किञ्च येभ्यः संसारोत्पत्तिरिष्टा, तेषामवस्थानं कुत्राऽऽसीत् ? प्रलये च धराजलादि किंरूपं भवति ? न हि मूर्तं कदाप्यमूर्त्ततां प्रतिपद्यते मूर्त व्यक्तमेवेति नैतदव्यक्तं भवितुमर्हति।
यदि च सर्वथाऽप्यव्यक्तमनिर्देश्यमेव रूपं संहृतस्य जगत इष्यते, तत्तु वन्ध्यापुत्रस्यैव युज्यते। एवं च यथा खपुष्पात् कूर्मरोमप्रसूतिर्नास्ति, तथाऽभूतेभ्यो भूतानामप्युद्भवो न सम्भवति।
किञ्च भूतगणविरहे ब्रह्मादेः शरीरस्यैवासम्भव इति कुतस्तन्निःसृताण्डाज्जगत्प्रसूतिवार्ताऽपीति विचारणीयम्, देहाभावे च बुद्ध्यादेरप्यसम्भवाद् वाङ्मात्रं ततः जगज्जन्म। __किञ्च सोऽपि ब्रह्मादिः केन कृतः ? अकृत एवैष सनातन इति चेत् ? तथैव लोकोऽपि शाश्वत एवाभ्युपगम्यतामित्यानीतोऽसि मार्गे। एतदाशयेनैवाह- तस्मादेतदेव वक्ष्यमाणं सर्वं सम्यगिति ब्रवीमि, यन् नापि माया - न मायामात्रमिदं जगत्, यतः साऽपि सत्यसती वेति दुरुत्तरः पर्यनुयोगः। न कदाचिदपि लोको नाऽऽसीत्, अपि त्वासीदेव, न कदाचिदपि न भवति, अपि तु भवत्येव, न कदाचिन्न भविष्यति च अपि तु भविष्यत्येव। तस्मात् - सर्वाः पृथिव्यश्च समुद्रशैलाः, सस्वर्गसिद्धालयमन्तरिक्षम्। अकृत्रिमः शाश्वत एष लोकः, अतो बहिर्यत्तदलौकिकं तु - इति प्रतिपत्तव्यम् (लोकतत्त्वनिर्णये ३-३४)। तस्मात् -