________________
Re-ऋषिभाषितानि -
इह निरुध्यमानः - निगृह्यमानः, क्रोधः, पुरुषं हृष्टम् - आनन्दितं नीरोगं वा करोति, अन्यथा पश्चादनुशयादिना हर्षाद्यनापत्तेः, क्रोधेन धातुक्षोभादिना रोगसमुन्मज्जनाच्च। एतदेवाह- इह विमुच्यमानः- उपेक्ष्यमाणत्वेनानिगृहीतः क्रोधः भस्म करोति, प्रागुक्तहृदयदाहाद्यपायपात्रीकुरुत इत्यर्थः ।
तस्मात् प्राज्ञः - परिणतप्रकृताध्ययन - तात्पर्यार्थः, हृष्टं च भस्म च समीक्ष्य - द्वयोरपि विपाकं पर्यालोच्य, जितात्मा - वशीकृतात्मा, सदा कोपं निरुन्ध्यात्। क्रोधनिरोधस्यानन्तरफलतया हर्ष उदितः। साम्प्रतं परम्परफलमाह
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।।
एवम् - क्रोधनिरोधेन, सः - जितात्मा, सिद्ध इत्यादि प्राग्वत्। इति षट्त्रिंशत्तमे तारायणीयाध्ययन आर्षोपनिषद्।
॥अथ सप्तत्रिंशत्तमोऽध्यायः।। अनन्तराध्ययने क्रोधनिरोधः कर्तव्यतया प्रतिपादितः, तत्र यतमानस्यापि कुतीर्थिकसंस्तवादिना विचिकित्सा सम्भवति, ततश्च सम्यक्त्वदूषणेन कषायनिरोधोऽपि कदाचिद् विफलतामुपयायादिति कुतीर्थिकविशेषमतं मिथ्यातयोपपाद्य सम्यक्त्वे स्थिरीकर्तुं प्रथम तन्मतमुपन्यस्यति - 'सव्वमिणं पुरा उदगमासि' त्ति सिरिगिरिणा माहणपरिव्वायगेण अरहता इसिणा बुड्यं।।३७-१।। सर्वमिदम् - दृश्यमानं जगत्, पुरा - प्राक्काले, उदकम् -
- आर्षोपनिषद् - जलस्वरूपम्, आसीत्। इति पूर्वपक्षानुवादेन श्रीगिरिणा पूर्वावस्थापेक्षया ब्राह्मणपरिव्राजकेनातर्षिणोदितम्।
स चायं पूर्वपक्षः- आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः।। तस्मिन्नेकार्णवीभूते नष्टस्थावरजङ्गमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे।। केवलं गह्वरीभूते, महाभूतविवर्जिते। अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः - इत्यादि। ततः -
एत्थं अंडे संतत्ते, एत्थं लोए संभूते, एत्थं 'सासेसे, इयं णे वरुणविहाणा, उभयोकालं उभयोसंझं खीरं णवणीयं मधु समिधासमाहारं खारं संखं च पिंडेत्ता अग्गिहोत्तकुंडं पडिजागरमाणे विहरिस्सामीति, तम्हा एयं सव्वं ति बेमि, ण वि माया, ण कदाति णासि, न कदाति न भवति, न कदाति न भविस्सति य।।३७-२।।
अत्राण्डं सन्ततम् - विस्तीर्णम्, उक्तं च-माहणा समणा एगे आह अंडकडे जगे - इति (सूत्रकृताङ्गे १-१-३)। यदोदकमन्तरेण न किञ्चिदपि वस्त्वासीत्, पदार्थमात्रशून्योऽयं संसारोऽभूत्, तदा ब्रह्माऽप्स्वण्डमसृजत्, तच्च क्रमेण विस्तृतभावमुपयातम्। तद् द्विधा कृत्वा भगवान् दिवं भूमिं च निर्ममे, तदाह - नारायणपराऽव्यक्ता- दण्डमव्यक्तसम्भवम्। अण्डस्यान्तस्त्वमी
१. क.ज.ट..ढाण.ध.न.प.फ - सासेसे । ख.थ. सासेइयं । ग.घ.च.छ.झ.त - सासासे।