Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
पंचेंदियसुसंवुडे सरीरसाधारणट्ठा जोगसंघणट्ठा णवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणासुद्धं तत्थ तत्थ इतराइतरकुलेहिं परकड - परणिट्टितं विगतिंगालं विगतधूमं सत्यातीतं सत्यपरिणतं पिंड सेज्जं उवहिं च एसे भावेमि" त्ति अद्दालएणं अरहता इसिणा बुझतं । । ३५ - १ । । चतुर्भिरस्थानैः - अप्रशस्तयोगालम्बनभूतैः खलु भोः ! जीवाः कुप्यन्तः कोपविकारवशीभवन्तः, माद्यन्तः अभिमानं कुर्वन्तः, गूहन्तः - मायावशवर्तिनः, लुभ्यन्तः सतृष्णीभवन्तः, वज्रम् - पापम्, समाददति । वज्रं समादाय चातुरन्तसंसारकान्तारे पुनः पुनरात्मानं परिविध्वंसयति, कृतकर्मविपाककाले छेदनादिविषयीकुर्वन्ति । न चाकामत्वादन्यकर्तुरुपलम्भाच्च परिविध्वंसकर्तृत्वेन व्यपदेशस्यानुपपन्नतेति वाच्यम्, कर्मण एवान्तरङ्गत्वेन मुख्यहेतुत्वात्, तत्राऽपि तद्धेतोरेवास्तु किं तेनेति न्यायेन कर्मकर्तृत्वेन जीवानामेव परिविध्वंसकर्तृत्वमायातमिति सर्वमवदातम् ।
-
१३५
चतुर्भिस्स्थानैः परिविध्वंसयन्तीत्युक्तम्, तानि स्थानान्येवाभिदधन्नाह - तद्यथा - क्रोधेन मानेन मायया लोभेन । तेषां च कषायाणामहं प्रतिघातहेतोरकुप्यन्नमाद्यन् अगूहन्नलुभ्यंस्त्रिगुप्तस्त्रिदण्डविरतो निःशल्यः - मायादिशल्यरहितः, अगारवः
१. क.ग.घ.च. छ. झ. ज. ठ.ढत विगतिंगालं । ख फ वितिगालं । थ.ध.न.प - वितिंगालं ।
आर्षोपनिषद्
ऋद्ध्यादिगारववर्जितः, स्त्र्यादिचतुर्विधविकथाविवर्जितः, पञ्चसमितः, पञ्चेन्द्रियसुसंवृतः, शरीरसन्धारणार्थं योगसन्धारणार्थमित्यादि प्राग्वत् ( ऋषिभाषिते २५ - ३ ) | नवरं शस्त्रातीतमिति शस्त्रेणाक्रान्तपूर्वम्, अत एव शस्त्रपरिणतम् शस्त्रप्रगतासूकम् । पिण्डादि गवेषमाण एषोऽहं संयमेन तपसाऽऽत्मानं भावयामीति यथातात्पर्यमध्याहार उद्यः । इत्यद्दालकेनार्हतर्षिणोदितम् । क्रोधादिप्रतिघातोऽपि तद्विपाकालोचनयेत्याह अण्णाविप्पमूढप्पा पच्चुप्पण्णाभिधारए । कोवं किच्चा महाबाणं अप्पा विंधइ अप्पकं ।। ।।३५-२।। अज्ञानेन विशेषण - ज्ञानांशमात्रवर्जनरूपेण, प्रकर्षेण तद्वशवर्त्तितया, मूढः - मोहविकारविकृतः, आत्मा यस्य सः - अज्ञानविप्रमूढात्मा । तमेव विशेषयति- प्रत्युत्पन्नम् - वर्तमानयत्किञ्चिदाभिमानिकसुखसाधनम्, तमेवाभिमुख्येनोपादेयतया धारयति मन्यत इति प्रत्युत्पन्नाभिधारकः, स आत्मा कोपम् - क्रोधात्मकम्, महाबाणम्, भावप्राणापहारक्षमत्वेन बाह्यतीरातिशायिनं शिलीमुखम्, कृत्वा प्रयुज्य, आत्मानमेव विध्यति मनस्तापादिकटुविपाकरूपवेधव्यथाविषयीकुरुते । महत्तामेव प्रस्तु
तबाणस्य प्रस्तौति -
१३६
-
-
मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति । कोधबाणेण विद्धे तु णिज्जती भवसंतति ।। ३५-३।। एतदहं मन्ये यद् - बाणेन - बाह्यकाण्डेन, विद्धः

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132