Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 80
________________ Re-ऋषिभाषितानि परगुणकीर्तनस्यापि प्रतिषेधात्, यदाह - यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति। तावद्वरं विशुद्ध, ध्याने व्यग्रं मनः कर्तुम् - इति (प्रशमरतौ १८४)। किञ्च, ज्ञानानन्दसमाधिसमुद्रनिमग्नस्य क्व परचिन्तावकाशोऽपीति विचारणीयम्, उक्तं च - लभ्रूण विहि एक्को तस्स फलं अणुहवेइ सुजणत्ते। तह णाणी णाणविहिं, भुंजेइ चइत्तु परतत्तिं - इति (नियमसारे १५७)। ननु मा भूत् परदोषदर्शनम्, परपापाचरणनिषेधस्तु कथं न करणीय इति चेत् ? अत्राह जड़ परो पडिसेवेज्ज पावियं पडिसेवणं। तुज्झ मोणं करेंतस्स के अटे परिहायति ?।। ॥३५-१६॥ यदि परः पापिकम् - पापसम्बन्धि प्रतिसेवनं प्रतिसेवेत, तदा तव मौनम् - मुनिभावव्यवस्थितिम्, वचननिरोधं वा, कुर्वतः, कोऽर्थः - प्रयोजनं परिहीयते ? न कश्चिदित्याशयः, परकीयपापानामात्मार्थे हानिप्रयोजकत्वाभावात्। नन्वेवं पापप्रतिषेधोपदेशोऽकर्तव्यतामापद्यत इति चेत् ? आपद्यतां नाम दशाविशेषापेक्षया, अपरथा तु सोऽपि कर्तव्यतयैवाभ्युपगम्यत इत्यानेडितमेव। तदत्र निष्कर्षमाह - आतट्ठो णिज्जरायंतो परट्ठो कम्मबंधणं। अत्ता समाहिकरणं अप्पणो य परस्स य।। ॥३५-१७।। आत्मार्थः, निर्जरायन् - निर्जराप्रयोजकः, परार्थः - १४४ आर्षोपनिषद् - अनधिकारिण आत्मार्थद्रोहकलङ्कितः परोपकारः, कर्मबन्धनम्, तद्धेतुभावात्। ___ अधिकारिणमुद्दिश्याऽऽह - आत्मनश्च परस्य च समाधिकरणम् - दोषापनोदो गुणप्रगुणताविधानं च, आत्मा, पदैकदेशे पदसमुदायोपचारेणात्मार्थ इत्यर्थः। अयमाशयः, अधिकारिणस्तु स्वपरयोरुभयोरप्युपकरणमात्मार्थ एव, परोपकारस्यापि निर्जरानिबन्धनत्वादिति। अनधिकारिणस्तु परार्थाभियोग उभयभ्रंशः, आत्मार्थवञ्चितत्वात्, अत एव पारमार्थिकपरायोगाच्चेति तं प्रत्युपदेष्टि - अण्णातयंम्मि अट्टालकम्मि किं जग्गिएण वीरस्स ?। णियगम्मि जग्गियव्वं इमो हु बहुचोरतो गामो।। ॥३५-१८।। अज्ञातके - अपरिचिते, एतच्च परकीयत्वातिशयप्रदर्शनार्थं विशेषणम्, अट्टालके-क्षौमे, प्राकाराग्रस्थे रणगृह इत्यर्थः, वीरस्य - सुभटमन्यस्य, जागरितेन - रक्षाबद्धकक्षतया निर्निमेषं निशानयनेन, किम् ? कोऽर्थोऽनेन सेत्स्यति ? निरर्थकमेतदित्यभिप्रायः। निजग्रामे मुष्यमाणे सति परत्र जागरितस्य विफलत्वात्, कुफलत्वाच्चेति पर्यवसितमाह - निजके - आत्मीये, अट्टालके जागृतव्यम्, तुः - यतोऽयं बहवश्चौरा यस्मिन् सः - बहुचौरकः, ग्रामः - आत्मीय आवसथः। आत्मनि तु चौरस्थानीया बहवो दोषाः स्वप्रत्यक्षा एवेति तेभ्य आत्मा रक्षणीयः, आत्मन्येव संशयारूढे पररक्षाऽसम्भवात्। अत्र

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132