Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 84
________________ ऋषिभाषितानि .१५१ क्रोध एवाग्निः, दाहकतासारूप्यात्, तदाह- क्रोधः परितापकर: इति (प्रशमरतौ २६) । तथा क्रोध एव तमः - अज्ञानम्, तद्धेतुभावात्। अन्धकारो वा, सद्बोधान्तरायकारितासाधर्म्यात् । मृत्युः, मरणपरम्पराबीजत्वात्, भावप्राणापहारकत्वाच्च । विषम्, अत एव । व्याधिः, बलादिक्षयनिमित्तत्वात् । अरिः, एकान्ताहितत्वात् । रजः, आत्मस्वरूपोपरञ्जनात्। जरा, सर्वोद्वेगयोनितासादृश्यात्, उक्तं च- सर्वस्योद्वेगकारकः क्रोधः - इति ( प्रशमरतौ २६ ) । तथा हानि - नैकानर्थप्रयोजकत्वेन धनादिहानिबीजत्वात्, उक्तं च - अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा - इति । एवं भयम् - ऐहिकादिभयकारणत्वात्। शोकः, अविचारितकार्यप्रयोजकत्वेन शोकपर्यवसायित्वात् । मोह: - मोहनीयप्रकृतिरूपत्वात्, मोहहेतुत्वाद्वा, कामस्यैव कुतश्चित् पराहतस्य क्रोधरूपेण परिणमनाद्वा, उक्तं च - कामात् क्रोधोऽभिजायते इति ( भगवद्गीतायाम् २-६२ ) । कामस्य मोहात्मकता तु प्रसिद्धैव । शल्यम् - वेधसविधव्यथावहत्वात् । पराजयश्च वैफल्यविधायित्वात्, क्रोधः कार्यविभङ्गाय इत्युक्तेः । किन्त्वेतदपि सर्वमुपमामात्रमेव, परमार्थतो महदन्तरत्वादित्यग्नितोऽस्यातिशयख्यापनेनातिदेष्टि वहिणो णो बलं छित्तं कोहग्गिस्स परं बलं । अप्पा गती तु वहिस्स, कोवग्गिस्सऽमिता गती ।। ।।३६-४।। - - आर्षोपनिषद् वनेः - अनलस्य, बलम् - अनर्थापादनसामर्थ्यम्, क्षिप्तम् सङ्क्षिप्तम् - परिमितमिति यावत्, न नास्ति, तत्कणस्यापि तृण्यां भस्मसात्कर्तुं समर्थत्वात् । तथापि क्रोधाग्नेः कोपलक्षणज्वलनस्य तु परम् - अत्युत्कृष्टम्, बलम् - प्रत्यपायजननसामर्थ्यं वर्तते । यतो वस्तु गतिरल्पा विद्यते, दाह्यविनाशानुविनाशशीलत्वात्तस्य, दृष्टमात्रापायफलत्वाच्च । क्रोधाग्नेस्त्वमिता गतिरस्ति, तज्जन्यापायानामनन्तेनापि कालेन निष्ठाविरहात् । इतश्च क्रोधस्याग्नेरतिशय इत्याह - सक्का वही णिवारेतुं वारिणा जलितो बहि । सव्वोदहिजलेणावि कोवग्गी दुण्णिवारओ ।। १५२ - - - प्राग्वत् (ऋषिभाषिते ३ - ११) । किञ्च एकं भवं दहे वही दहस्स वि सुहं भवे । इमं परं च कोवग्गी णिस्संकं दहते भवं । । ३६-६।। वह्निरेकमेव भवं दहति, तस्य प्रेत्यानुगामिताविरहात्, दग्धस्यापि सहसोत्थितानलोपद्रवेण परिप्लुष्टस्यापि भस्मावशेषीभूतस्यापि सुखम् - व्यन्तरनिकायिकं सौख्यम्, भवेत् सम्भाव्यते, तथाविधमरणेन मृतस्यात्मघातिनो वा तत्कालीनशुभाध्यवसायानुभावेन व्यन्तरगतिभावात्, सुहभावा हुंति वंतरिया इति वचनात् (बृहत्सङ्ग्रहण्याम्) । अयम् - प्रकरण प्रस्तुतत्वेन बुद्धिप्रत्यक्षः, कोपाग्निश्च - ।।३६-५।। -

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132