________________
ऋषिभाषितानि
.१५१
क्रोध एवाग्निः, दाहकतासारूप्यात्, तदाह- क्रोधः परितापकर: इति (प्रशमरतौ २६) । तथा क्रोध एव तमः - अज्ञानम्, तद्धेतुभावात्। अन्धकारो वा, सद्बोधान्तरायकारितासाधर्म्यात् । मृत्युः, मरणपरम्पराबीजत्वात्, भावप्राणापहारकत्वाच्च । विषम्, अत एव । व्याधिः, बलादिक्षयनिमित्तत्वात् । अरिः, एकान्ताहितत्वात् । रजः, आत्मस्वरूपोपरञ्जनात्। जरा, सर्वोद्वेगयोनितासादृश्यात्, उक्तं च- सर्वस्योद्वेगकारकः क्रोधः - इति ( प्रशमरतौ २६ ) । तथा हानि - नैकानर्थप्रयोजकत्वेन धनादिहानिबीजत्वात्, उक्तं च - अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा - इति । एवं भयम् - ऐहिकादिभयकारणत्वात्। शोकः, अविचारितकार्यप्रयोजकत्वेन शोकपर्यवसायित्वात् । मोह: - मोहनीयप्रकृतिरूपत्वात्, मोहहेतुत्वाद्वा, कामस्यैव कुतश्चित् पराहतस्य क्रोधरूपेण परिणमनाद्वा, उक्तं च - कामात् क्रोधोऽभिजायते इति ( भगवद्गीतायाम् २-६२ ) । कामस्य मोहात्मकता तु प्रसिद्धैव । शल्यम् - वेधसविधव्यथावहत्वात् । पराजयश्च वैफल्यविधायित्वात्, क्रोधः कार्यविभङ्गाय इत्युक्तेः ।
किन्त्वेतदपि सर्वमुपमामात्रमेव, परमार्थतो महदन्तरत्वादित्यग्नितोऽस्यातिशयख्यापनेनातिदेष्टि
वहिणो णो बलं छित्तं कोहग्गिस्स परं बलं । अप्पा गती तु वहिस्स, कोवग्गिस्सऽमिता गती ।।
।।३६-४।।
-
-
आर्षोपनिषद्
वनेः
- अनलस्य, बलम् - अनर्थापादनसामर्थ्यम्, क्षिप्तम् सङ्क्षिप्तम् - परिमितमिति यावत्, न नास्ति, तत्कणस्यापि तृण्यां भस्मसात्कर्तुं समर्थत्वात् । तथापि क्रोधाग्नेः कोपलक्षणज्वलनस्य तु परम् - अत्युत्कृष्टम्, बलम् - प्रत्यपायजननसामर्थ्यं वर्तते ।
यतो वस्तु गतिरल्पा विद्यते, दाह्यविनाशानुविनाशशीलत्वात्तस्य, दृष्टमात्रापायफलत्वाच्च । क्रोधाग्नेस्त्वमिता गतिरस्ति, तज्जन्यापायानामनन्तेनापि कालेन निष्ठाविरहात् । इतश्च क्रोधस्याग्नेरतिशय इत्याह -
सक्का वही णिवारेतुं वारिणा जलितो बहि । सव्वोदहिजलेणावि कोवग्गी दुण्णिवारओ ।।
१५२
-
-
-
प्राग्वत् (ऋषिभाषिते ३ - ११) । किञ्च एकं भवं दहे वही दहस्स वि सुहं भवे ।
इमं परं च कोवग्गी णिस्संकं दहते भवं । । ३६-६।। वह्निरेकमेव भवं दहति, तस्य प्रेत्यानुगामिताविरहात्, दग्धस्यापि सहसोत्थितानलोपद्रवेण परिप्लुष्टस्यापि भस्मावशेषीभूतस्यापि सुखम् - व्यन्तरनिकायिकं सौख्यम्, भवेत् सम्भाव्यते, तथाविधमरणेन मृतस्यात्मघातिनो वा तत्कालीनशुभाध्यवसायानुभावेन व्यन्तरगतिभावात्, सुहभावा हुंति वंतरिया इति वचनात् (बृहत्सङ्ग्रहण्याम्) ।
अयम् -
प्रकरण प्रस्तुतत्वेन बुद्धिप्रत्यक्षः, कोपाग्निश्च
-
।।३६-५।।
-