________________
Re-ऋषिभाषितानि -
॥ अथ षट्त्रिंशत्तमोऽधयायः ।। अनन्तराध्ययने कषायनिग्रहः प्रतिपादितः, तेषु चाग्रेसरः कोपः, इत्यत्र तदुर्विपाकादिनिरूपणेन तद्विजयायोत्साहयति'उप्पतता उप्पतता उप्पयंतं पितेण वोच्छामि। किं संतं वोच्छामि, ण संतं वोच्छामि कुक्कुसयावित्तेण तारायणेण अरहता इसिणा बुइतं।।३६-१।।
उत्पततोत्पतता - भृशमुदीर्यमाणेन, क्रोधेनेति गम्यते, उत्पतन्तम् - अत्यन्तमाध्मातम्, क्रोधनमनुष्यमिति गम्यते, प्रियेण - मनोज्ञेन, वचसेति ज्ञायते, वक्ष्यामि- कथयिष्यामि, क्रोधामातं प्रियवचनेन निर्वापयिष्यामीति हृदयम्।।
किं श्रान्तम् - प्रियेणापि क्षमाधुपदेशेन निर्विण्णमहं वक्ष्यामि ? अयं भावः, खेदापन्नं चित्तं प्रियेऽप्यरतिज्वरात भवतीत्यसौ प्रियभाषणस्याप्यकाल एवेति प्रश्नकारोऽन्येषामप्यौचित्यव्युत्पादनाय क्षमावचोऽवसरं प्रख्यापयति, न श्रान्तं वक्ष्यामीति, तदोदीरितवचसो वैफल्यात्, प्रत्यपायावहत्वाच्च।
केनैवमुक्तमित्याह- कुक्कुस इति देश्यशब्दः पलालवाची, स्वार्थे कप्रत्ययः, दीर्घभावः प्राकृतत्वात्, रामापुत्त इति यथा। ततः कुक्कुसकः - पलालकल्पं निस्सारं चीवरादि, स एव वित्तम् - धर्मोपकरणत्वेन परिगृहीतम्, त्यक्ताशेषविभवनेनाऽपि स्वस्वामिकतयाङ्गीकृतमिति यावत्, यस्य सः - कुक्कुसकवित्तः, तेन। एतेनास्याचेलकल्पाराधकत्वमुक्तम्, उपलक्षणं चैतत् स्वप्रायोग्य
१५०
आर्षोपनिषद् - शेषकल्पानाम्। विशेषणमभिधाय विशिष्टमाह - तारायणेनार्हतर्षिणोदितमिति। योग्यावसरे तु यद्वक्ति तदाह
पत्तस्स मम य अन्नेसिं मुक्को 'को(वो) दुहावहो। तम्हा खलु उप्पतंतं सहसा कोवं णिगिण्हितव्वं ।।
॥३६-२॥ पात्रस्य - क्रोधाध्मातप्रकोपभाजनीभूतस्य, परुषवचनविषयीभूतस्येत्यर्थः, मम - प्रवक्तुः प्रत्येकबुद्धस्य, अन्येषां च - मद्विधानां परुषभाषितनिशितशरशरव्यीकृतानाम्, मुक्तः- उत्सृष्टः, अस्माकं प्रति व्यक्तीकृत इत्यर्थः, क्रोधः - प्रबलक्रोधोदयेनोदीरितमतिकटुकं वचनम्, फले हेतूपचारात्, दुःखावहः- दुःखनिबन्धनं भवति। यतः - रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् - इति (महाभारते)। तस्मात् खलु उत्पतन् - उदयाभिमुखीभवन्, सहसा - सपदि, अविश्वसनीयत्वात् कषायाणाम्, उक्तं च - अल्पेऽपि साधुन कषायवना - वह्नाय विश्वासमुपैति भीतः। प्रवर्धमानः स दहेद् गुणौघं साम्याम्बुपूरैर्यदि नापनीतः - इति (अध्यात्मोपनिषदि ४११)। कोपः - मन्युः, निगृहीतव्यः - प्रवचनप्रतिपादितोपायेन निग्रहगोचरीकर्तव्यः। क्रोधस्य दुःखावहत्वमेवोपमाभिः स्फुटयति
कोवो अग्गी तमो मच्चू विसं वाधी अरी रयो। जरा हाणी भयं सोगो मोहं सल्लं पराजयो।।३६-३।।
१. क.ज.ट.ठ.ढण.ध.न.फ - कोदुहा। ख - केदुहा । ग को (वो) दुहा । ध.प - क्कोदुहा। घ.च.छ.झ.त - कोवोदुहा ।
१. ग.द - ततो उप्पतता। ट . तता उप्पतता।