________________
Re-ऋषिभाषितानि औषधम् - व्रणचिकित्सार्थं भेषजम्, तत्क्रयणार्थं मूल्यम् - उचितं धनम् - औषधमूल्यम्, तदविन्दन् - निर्धनत्वेनाप्राप्नुवन्, यथा नश्यति, तथा त्वमपि नक्ष्यसीति। तस्मात् -
जागरह णरा णिच्चं जागरमाणस्स जागरति सुत्तं। जे सुवति न से सुहिते जागरमाणे सुही होति।।
॥३५-२३॥ हे नरा ! यूयं नित्यं जागृत - आत्मार्थे सदाऽप्यप्रमत्ता भवत। अयमपरो जाग्रतो गुण इत्याह - जाग्रतः सूत्रम् - पूर्वाधीतं श्रुतम्, जागर्ति - स्वनामवत् सदापि स्मृतावुपस्थितं स्थिरपरिचितं च भवति, यदाह - सुअइ सुअंतस्स सुअं, संकियखलियं भवे पमत्तस्स। जागरमाणस्स सुअं थिरपरिचियमप्पमत्तस्स।। जागरह णरा णिच्चं जागरमाणस्स वड्डए बुद्धी। जे सुअइ ण सो धण्णो, जो जग्गइ सो सया धण्णो।। नालस्सेण समं सोक्खं ण विज्जा सह निद्दया। ण वेरगं पमादेण, णारंभेण दयालुया।। सुवइ य अयगरभूओ, सुयं पि से णस्सती अमयभूयं। होही गोणतभूओ, णट्ठम्मि सुअ अमयभूए - इति (आचाराङ्गे १-३-१)।। यत एवं तस्मात् - यः स्वपिति न स सुखितो भवति, किन्तु जाग्रन् स सुखी भवति। न हि प्रमादपङ्कनिमग्नानां सुखलेशोऽपि सम्भाव्यते, अशेषदुःखसन्दोहस्य प्रमादमूलकत्वात्, तस्मादनिशमप्रमत्तैर्भाव्यमिति भावः। जाग्रन् सुखी भवतीति यदुक्तम्, तत्रैव हेतुमाह -
१४८
आर्षोपनिषद् - जागरंतं मुणिं वीरं दोसा वज्जेंति दरओ। जलंतं जाततेयं वा चक्खुसा दाहभीरुणो।।
॥३५-२४॥ जाग्रतम् - अप्रमत्तम्, तमेव विशेषयति मुनिम् - भावमौनमालिनम्, तमेव विशेषयति - वीरम् - कर्मसङ्ग्रामशूरम्, दोषाः - रागादयः, रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा - इति वचनात् (योगशतके ५३)। ते दूरतः वर्जयन्ति, अप्रमादभावादिलक्षणतत्प्रतिपक्षसद्भावात्, तेषां च परस्परपरिहारेणावस्थितत्वात्।
एतदेव दृष्टान्तत आचष्टे यथा ज्वलन्तं जाततेजसम् - वह्निम्, यथा दाहभीरवः- सञ्जातपरिप्लोषसाध्वसाः, चक्षुषा दृष्ट्वैव वर्जयन्ति, यद्वा यथाऽग्निर्दृष्टिविषयोऽपि न स्यात्तथाऽपसरन्तीत्यर्थः।
एवं से सिद्ध बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।।
एवम् - जागरणानुभावतोऽशेषदोषवर्जनेन, सः - जागृतो मुनिः, सिद्ध इत्यादि प्राग्वत्। इति पञ्चत्रिंशत्तमेऽद्दालकीयाध्ययन आर्षोपनिषद्।