________________
ऋषिभाषितानि
निःशङ्कं परम् प्रकृष्टं यथा स्यात्तथा भवम् जन्मसामान्यावच्छिन्नम्, अनेकजन्मान्तराणि यावदिति भावः, दहते - स्वजन्यप्रत्यपायलक्षणदाहेन दुःखितं विधत्ते । अयमपरोऽप्यतिशय इत्याह
=
१५३
१. क. ख. ज. ट ठ ड थ.ध.न संति पुणौ ण सती । ढ
-
अग्गणा तु इहं दड्ढा संतिमिच्छंति माणवा । कोहग्गिणा तु दड्ढाणं दुक्खं 'संति पुणो वि हि ।।
।।३६-७।।
इहाग्निना दग्धा: - भवितव्यतादियोगेन हस्ताद्यवच्छेदेन दाहवेदनां प्राप्ताः, मानवास्तु शान्तिम् - दाहदुःखोपशमनम्, इच्छन्ति - अत्यन्तमभिलषन्ति, अत एव सर्वप्रयत्नेन तत्प्रतिपक्षासेवनमग्निपरिहारं च विदधन्ति । क्रोधाग्निना तु दग्धानाम् - हृदयदाहाद्यपायकदर्थितानाम्, उक्तं च - हृदयदाहाङ्गकम्पाक्षिरागेन्द्रियापाटवादिनिमित्तजीवपरिणामः क्रोधः इति (धवलायाम् १२-४-२-८ ) । पुनरपि शान्तिः - क्रोधविहितव्यथोपशमः, दुःखं हि दुःखेनैव भवति, अत्यन्तं दुःखप्राप्यं क्रोधजनितप्रत्यपायप्रतिविधानमित्याशयः । न हि प्रतिपक्षहेतुसद्भावे प्रकृतकार्यजननं घटाकोटिमाटीकते, औष्णहेतुसद्भावे शैत्यवत् । तस्मात् क्रोधनस्य क्रोधजनितदाहोपशमो नैव सुखसाध्यतामुपयाति । दाहोपशमलेपविलेपनेऽकृते, पुनः पुनश्च दाहविषयीकृते च शरीरभागे कुतस्तरो दाहोपशमावकाशोऽपीति ।
-
संती गझ संति । घ छ त सन्ति । चसंतीपुणोदहि । पफ संतीपुणो हि ।
आर्षोपनिषद्
नन्वनुभूततत्कटुफलानामपि कथं तत्परिहारो न सम्भवतीति चेत् ?
१५४
अत्राह
सक्का तमो निवारेतुं मणिणा जोतिणा वि वा । कोवतमो तुदुज्जेयो संसारे सव्वदेहिणं ।। ३६-८।। मणिना भास्वररत्नविशेषेण, ज्योतिषाऽपि वा सूर्यादिसम्बन्धिना दीपकादिना वा, तमः - अन्धकारः, निवारयितुं शक्यः, तन्निवारणेनैव ज्योतिरादिस्वरूपलाभात्, (नैतज्ज्योतिरेव यत्तमो न निवारयतीति ) ।
कोपतम: - क्रोधात्मकं सन्तमसम्, तुः लौकिकतमोऽपेक्षया भिन्नपक्षद्योतकः, दुर्जेयः अतिदुष्करनिवारणः, केषामित्याह - संसारे सर्वदेहिनाम् संसारवर्तिनां प्रायः सर्वेषामप्यसुमताम्। ततश्च क्रोधाभिभूतानां या विडम्बना भवन्ति, ता
आह
-
-
-
सत्तं बुद्धी मती मेधा गंभीरं सरलत्तणं । कोहग्गहऽभिभूयस्स सव्वं भवति णिप्पभं । । ३६-९ ।। सत्त्वम् - वीर्योल्लासः, बुद्धिः - तत्कालदर्शिनी प्रतिभा, मतिः - आगामिकी मनीषा, मेधा कालत्रयात्मिका प्रेक्षा, गम्भीरम् – भावप्रधानत्वान्निर्देशस्य गाम्भीर्यम्, तच्च हर्षविषादादावनुपलभ्यमानचित्तवृत्तित्वम्, सरलत्वम् - मनोवाक्कायाविसंवादता, तदेतत् सर्वमपि, क्रोध एव ग्रहः क्रोधग्रहः, विचेष्टितत्वादिप्रयोजकतासामान्यात्, तेनाभिभूतस्य पराभूतस्य, निष्प्रभम् - अपगतकान्ति, स्वानुभावमनुदर्शयितुमक्षममिति यावत्,
-
-